________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः]
अनर्घराघवम् ।
३२१
अपि च । देवस्यात्मभुवः कमण्डलुजलस्रोतांसि मन्दाकिनी
गङ्गाभोगवतीमयानि पुनते यावत्रिलोकीमिमाम् । तावद्वीरयशोरसायनमधुस्यन्दः कवीनामयं जागर्तु श्रुतिशष्कुलीवलयितव्योमावगाही गुणः ।। १५२ ।।
(इति निष्क्रान्ताः सर्वे ।) __ इति नायकानन्दो नाम सप्तमोऽङ्कः । इति महाकविश्रीमुरारिविरचितमनर्घराघवं नाम नाटकं समाप्तम् ।
शब्दरूपब्रह्मण उत्थितं परिमलं सौरभमनाघ्रायाननुभूय कवीनां गम्भीरे वचसि गुणदोषौ न रचयतु । तथा च शब्दप्रतिपाद्यमर्थविशेषं ज्ञात्वा जनो गुणदोषौ विदधात्विति भावः । देवस्येति । मन्दाकिन्याकाशगङ्गा, गङ्गा महँगङ्गैव, भोगवती पातालगङ्गा, एतन्मयान्यात्मभुवो देवस्य ब्रह्मणः कमण्डलुजलस्रोतांसि यावदिमां त्रिलोकी खर्गमर्त्यपातालरूपां पुनते पवित्रयन्ति तावत् कवीनामयं गुणो जागर्तु । कीदृशः । श्रुतिशकुल्या कर्णविवरेण वलयितमवच्छिन्नं ययोमाकाशं तदवगाहित्वं शीलं यस्य सः । कर्णशष्कुल्यवच्छिन्नाकाशदेश उत्पन्नः शब्दो गृह्यत इति राद्धान्तः। तथा च शब्दरूपो गुणो जागत्विति भावः। वीरः प्रकृते रामस्तस्य यश एव रसायनं नित्यं क्रियमाणमौषधं तस्य मधुस्यन्दो मधुस्रवः वीरयशोवर्णनेन मधुस्यन्द एवेति भावः । 'मन्दाकिनीवियद्गङ्गा इत्यमरः ॥
दोषाकरं समवधीय गुणानशेषानाशु प्रकाशयति सूर इवांशुराशीन् ।
यस्तं प्रति प्रविहितोऽञ्जलिरेष नित्यमालोकनान्मम कृतेमुदमादधातु ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारायणपदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवनिदेशप्रोत्साहितवैजोलीग्रामवास्तव्यखौंआलवंशप्रभवश्रीरुचिपतिमहोपाध्यायविरचिताया
मनर्घराघवटीकायां सप्तमोऽङ्कः ।
१. 'स्यन्दी'. २. 'इति सप्तमोऽङ्कः'; 'इति नायकपरमानन्दो नाम'. ३. अधुनास्माभिरस्य नाटकस्य टीकाद्वयमन्यदपि दृष्टम्. तत्रैकामलधारिशिष्यनरचन्द्रसूरिकृता, अपरा तु कर्तृनामरहिता वर्तते.
अन० २८
For Private and Personal Use Only