SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः। अनर्घराववम् । ३०७ (विमानवेगं रूपयित्वा ।) देवि', देव्या भूमेमृगमदमषीमण्डनं सिद्धसिन्धोः सध्रीचीयं जयति यमुना या तटैकाग्रवृत्तीन् । प्रेमोत्कर्षादिव पितृपतेतुराच्छिद्य हस्ता दस्ताबाधं गमयति पितुर्मण्डलं चण्डभानोः ॥ ११६ ॥ लक्ष्मणः-(दूरमङ्गुल्या दर्शयन् ।) त्रिपुरहरकिरीटक्रीडितैः क्रीडयद्भि (वनममृतभानोलिमित्रैः पयोभिः । सगरसुतचितायाः पावनी तोयराशे रियमियमघमग्रे जाह्नवी निहते नः ॥ ११७ ॥ युवतरुण्योरित्यर्थः । युवती च युवा चेति 'पुमान्त्रिया' इत्येकशेषः । रूपयित्वा नाटयित्वा । देव्या इति । इयं यमुना जयतीत्यन्वयः । कीदृशी । मृगमदः कस्तूरी । कृष्णत्वाद्रूपकम् । (सैव मषी) तया जातं भूमेर्मण्डनं भूषणम् । अजहल्लिङ्गतयान्वयः । या यमुना सिद्धसिन्धोगङ्गायाः सध्रीची सहचरी सती तटैकाग्रवृत्तीन्पुरुषानिपतृपतेर्यमस्य वभ्रातुर्ह रतात्प्रेमोत्कर्षास्नेहोरेकादिवाच्छिद्याकृष्य चण्डभानोः सूर्यस्य स्खपितुर्मण्डलं गमयति प्रवेशयति । प्रयागमरणे रविरश्मिवर्मना स्वर्गगमनं भवतीत्यागमः । अस्ता आबाधा महापीडा यत्र तादृशम् । क्रियाविशेषणं वा । 'मृगनाभिमृगमदः' इत्यमरः । 'पितृपतिः समवर्ती परेतराट्' इत्यपि । त्रिपुरहरेति । इयमियमित्यत्र 'संभ्रमे द्वे भवतः' इति द्वित्वम् । अघं पापं नोऽस्माकं निहते नाशयतीत्यर्थः । सगरसुतचिताया इति तोयराशेरिल्यस्य विशेषणम् । अजहल्टि तयान्वयः । चिता मृतदाहार्थमन्याधानम् । 'चिता चित्या चितिः स्त्रियाम्' इत्यमरः। पावनीति 'करणाधिकरणयोश्च' इति ल्युट् । पयोभिरिति करणे तृतीया । पयोभिः कीदृशैः । अमृतभानोश्चन्द्रस्य बालमित्रैः । बाला एव मित्राणि तैः । यद्वा भावप्रधानो निर्देशः । बाल्यान्मित्ररित्यर्थः । किरीटं भूपालादीनां शिरोलंकरणम् । 'मुकुट किरीटं पुंनपुंसकम्' इत्यमरः । 'कलुषं वृजिनेनोयम्' इति च । सगरमुचितायाः पावनीत्यत्र सगरसुतकथा पुराणे व्यक्ता । तथा हि-सगरेण राज्ञा अश्वमेधे आरब्धे तस्याश्वमिन्द्रो हृत्वा कपिलमुनिसंनिधाने बद्धा गतः । सगरपुत्रैस्तदश्वान्वेषणपरैः पृथिवीं खनद्भिः कपिलान्तिकेऽश्वो दृष्टः । स मुनिश्च ताडितः । ततस्तन्नेत्रोद्भवाग्निना सगरपुत्रा भस्मीभूताः । सगरपुत्रखननादेव समुद्रः सागर इति ख्यातः । ततश्च सगरप्रपौत्रेण भगीरथेन कपिलमुनिवचसैव गङ्गामानीय सागरे प्रवेश्य भस्मीभूता अगतयः सगरपुत्राः पाविता १. 'देवि' इति पुस्तकान्तरे नास्ति. २. 'भास्करस्य'. ३. 'प्रीणयद्भिः'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy