________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
काव्यमाला । दशरथः-(सविमर्शस्मितम् ।) सखे वामदेव,
तस्याज्ञयैव परिपालयतः प्रजां मे ___ कर्णोपकण्ठपतिंकरणी जरेयम् । यद्गर्भरूपमिव मामनुशास्ति सर्व
मद्यापि तन्मयि गुरुर्गुरुपक्षपातः ॥ १५॥ वामदेवः-महाराज, किमुच्यते । समानवृत्तेरपि क्वचिदेव कस्यचित्तारामैत्रकम् । तथाहि स तत्रभवान्
साधारणो रघूणां गुरुभवन्नपि विशेषदृष्टिस्ते । नामोदयति कमिन्दुः कुमुदं पुनरस्य सर्वस्वम् ॥ १६ ॥
स्मितमीषद्धासः । स्वस्य वसिष्ठाधीनत्वं प्रकटयति-तस्येति । तस्य वसिष्ठस्याज्ञयैव प्रजां रक्षतो ममेयं कर्णोपकण्ठे कर्णसमीपे पलितकरणी शौक्लयकारिणी जरा । उपस्थितेति शेषः । उपकण्ठः समीपम् । 'उपकण्ठान्तिकाभ्यर्ण-' इत्याद्यमरः। पलितंकरणीत्यत्र 'आद्यसुभग-' इत्यादिना ख्युन् । 'अरुषिदजन्तस्य-' इति मुम् 'टिडाणञ्-' इत्यादिना ङीप् । 'पलितं जरसा शौक्लयम्' इत्यमरः । पलितं क्रियते यया सा पलितंकरणी । स्वस्मिन्वसिष्ठस्य स्नेहाधिक्यं द्रढयितुमाह-यद्गर्भरूपमिति । यदद्यापि वृहत्त्वेऽपि सति गर्भरूपमिवातिबालकमिव युवानमिव वा यथाकर्तव्यमनुशास्त्युपदिशति । तत्तस्माद्गुरोर्वसिष्ठस्य मयि पक्षपातोऽनुग्रहो गुरुरतिशयितः । तथा च वसिष्ठादेशो मयावश्यं कर्तव्य इति भावः । दशरथस्तु संस्कृतवाची । तदाहुः-'देवानां भूपतीनां च सचिवानां पुरोधसाम् । अमात्यवणिगादीनां पाठ्यमिच्छन्ति संस्कृतम्' इति । 'बालके तरुणेऽपि स्याद्र्भरूपः' इति विश्वः । 'गुरुमहति पित्रादावुपदेशकृति स्मृतः' इति च । का. कुत्स्थकुलसाधारणोऽपि वसिष्ठस्त्वय्येवानुरक्त इति बोधयितुमाह-समानवृत्तेरपि । समानवृत्तेस्तुल्यव्यापारस्य तारामैत्रकं स्वभाविकी चक्षुःप्रीतिः । यद्वा नक्षत्रयोगकृता मैत्री । क्वचिदेव, न सर्वत्र । 'अक्षिपुत्र्यां च नक्षत्रे तारोक्ता वालियोषिति' इति विश्वः । तारामैत्रकमिति 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुञ्। प्रकृते तदुपपादयति-साधारण इति । रघूणां रघोरपल्यानां साधारणो गुरुभवन्नपि वसिष्टस्तवकृते विशेषदृष्टिः । त्वय्यत्यन्तमनुरक्त इत्यर्थः । अत्र दृष्टान्तद्वारोपपत्तिमाह-इन्दुश्चन्द्रः कं नानन्दयति, अपि तु बहुतरमेव । अस्य चन्द्रस्य पुनः कुमुदं सर्ववभूतम् । यद्यपि बहूनामानन्ददायी भवति चन्द्रस्तथापि कुमुदस्यात्यन्तमिति भावः । प्रतिवस्तूपमायमलंकारः । यदाह दण्डी–'वस्तु किंचिदुपन्यस्य समानात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रति
१. 'ऋषे' इति पाठान्तरम्.
For Private and Personal Use Only