SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ काव्यमाला। रामः-(विहस्य ।) आं जानकि, आम् । क्रौञ्चं विमुच्य पुत्रं च पितरं च हिमालयम् । प्रविश्य जलधिं पक्षौ रक्षतानेन किंकृतम् ॥ २३ ॥ सीता--(हसन्ती पुष्पकं प्रति ।) विमाणराअ, गअणमग्गचंकमणकोदूहलुल्लसिअमाणसामि । ता उण्णमेहि दाव । रामः-(सकोतुकस्मितम् ।) देवि रत्नगर्भागर्भरत्नशलाके, पश्य पश्य । यथा यथा परं व्योम विमानमधिरोहति । तथा तथापसर्पन्ति परतः परितो दिशः ॥ २४ ॥ किं च । आसन्नतपनाश्यानत्वचः पुष्पकपीडिताः । गगनार्णवयादांसि स्तिम्यन्ति स्तनयन्निव ॥ २५ ॥ जानामि पक्षच्छेदमपि विना स्थावरीभूतः' [इति च्छाया ।] इह गौरीगुरोहिमालयस्य । युवराजः कृताभिषेकः पुत्रः । गर्भो मध्यम् । जानामीत्यत्र वाक्यार्थस्यैव कर्मता । इतिरध्याहार्यो वा । अपिभिन्नक्रमः । तेन पदच्छेदं विनापीत्यर्थः । स्थावरः स्थिरः । क्रौञ्च गिरिभेदम् । किंकृतं कुत्सितं कृतम् । पितापुत्रयोस्त्यागात् । यद्वा किं कृतम् , अपि तु न किमपि कृतमित्यर्थः । विमाणेति । 'विमानराज, गगनमार्गचक्रमणकौतूहलोल्लसितमानसास्मि । तदुन्नम तावत्' [इति च्छाया ।] इह चक्रमणं कौटिल्यगमनम् । 'नित्यं कौटिल्ये गतौ' इति यङ् । 'नुगतोऽनुनासिकान्तस्य' इति नुक् । उन्नम ऊर्ध्व गच्छ । 'उल्लफलिदमाणसह्मि' इति पाठे उल्लफलिदशब्दो देशी उत्कण्ठिते वर्तते । 'हल्लहलमाणसह्मि' इति पाठे हलहलशब्दोऽपि देशी उत्सुकतामाह । यथेति । विमानं कर्तृ । परमुपरि । व्योम कर्म । अपसर्पन्ति पलायन्ते । परतोऽन्यस्थानम् । परितः सर्वतः । 'परतः परतः' इति पाठे 'नित्यवीप्सयोः' इति वीप्सायां द्विरुक्तिः । आसनेति । आसन्नो निकटो यस्तपनः सूर्यस्तस्य तेजसा आश्यानाः शुष्कास्त्वच इव खच एकदेशा येषां तादृशाः स्तनयित्नवो मेघाः स्तिम्यन्ति आर्द्राभूताः शब्दं कुर्वन्ति । यद्यपि 'स्तिमिर आर्दीभावे' देवादिक आर्द्रतामात्रे पठ्यते, तथापि खभावादाीभावपूर्वकशब्दे तस्य प्रयोगः । तथैव सहचारात् । यादांसि जलजन्तवः । अजहल्लिङ्गतया १. 'विहस्य' इति पुस्तकान्तरे नास्ति. २. 'विलुप्य'. ३. 'तेन'. ४. 'रत्नगर्भागर्भरत्नशलाके' इति पुस्तकान्तरे नास्ति. ५. 'तिम्यन्ति'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy