SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः] अनर्घराघवम् । २६३ ( सविमर्श च ।) स्यादेव तोयममृतप्रकृतिर्यदि स्या___ नैकान्तमद्भुतमिदं पुनरद्भुतं नः । लक्ष्मीतुषारकरकौस्तुभपारिजात धन्वन्तरिप्रभृतयो यदपां विवर्तः ॥ १३ ॥ अपि च देवि, आकण्ठदृष्टशिरसाप्यविभाव्यपृष्ठ पार्थोदरेण चिरमृम्भिरुपास्यमानः । नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः ॥ १४ ॥ : (सीता वन्दते।) लक्ष्मणः-यत्सत्यमुत्सर्पिणी धर्मोत्तराणां सिद्धिः जरयतु जगत्कल्पोच्छित्तौ पिपर्तु पयोधरा न्वहतु वडवावक्त्रज्योतिर्दधातु सुधाभुजः । मलंकर्ता।यो हि हरचूडामणिः स कथं सर्वालंकर्तेति । अविरोधो दर्शित एव । स्यादेवेति। तोयं पानीयममृतप्रकृतिरमृतक्षारणममृतस्वभावो वा यदि स्यात्स्यादेव । तोयस्य द्रवद्रव्यत्वात् । अमृतमपि तागेवेति । एकान्तमत्यर्थ नाश्चर्यम् । यद्वा अमृतनामकत्वाजलस्य न चित्रम् । यद्वा तोयं जलममृतप्रकृतिः सुधाकारणं यदि स्यात्स्यादेव । अमृतस्य हि समुद्रोत्पन्नत्वात् । यद्वा तोयममृतस्य प्रकृतिः समगुणं वा स्वभावो वा स्यादेव । 'प्रकृतिगुणसाम्ये स्यात्वभावे कारणेऽपि च' इति विश्वः । नोऽस्माकमिदं पुनरद्भुतमाश्चर्य यदेते लक्ष्म्यादयोऽपां विवर्तः परिणामः । विसदृशत्वात् । तुषारकरश्चन्द्रः । धन्वन्तरिमुनिभेदो वैद्यककर्ता । आकण्ठेति । किल प्रसिद्धौ । अत्र समुद्रे भगवानरविन्दनाभो नारायणः शेते खपिति । कीदृशेन । नाभीपद्मस्थितेन चतुराननेन ब्रह्मणा चिरसमयं व्याप्य ऋग्भिर्वेदैरुपास्यमानः । कीदृशेन । कण्ठपर्यन्तं दृष्टमस्तकेनाप्यज्ञातपृष्टपार्बोदरेण । यद्यपि कण्ठपर्यन्तं शिरो दृष्टं तथापि न ज्ञातं कास्य पृष्ठादिकम् । चतुर्मुखत्वात्तत्रापि मुखसंभावना स्यादिति भावः । वन्दते नमस्करोति । उत्सर्पिणी वर्धमाना। धर्मोत्तराणां तपःप्रधानानामगस्त्यादीनाम् । सिद्धिः कर्मफलम् । जरयत्विति । अयमपां निधिः समुद्रो जगद्भुवनं कल्पोच्छित्तौ सृष्ट्यवनासे जरयतु जीणे करोतु । नाशयत्वित्यर्थः । 'जनयतु जगत्' इति पाठे कल्पोच्छित्तौ प्रलयावसाने सति जगज्जनयतूत्पादयतु । समुद्रेण हि प्रलये पयःप्राचुर्याज्जगजीर्यते। सृष्टिकालौ जलैरेव सृज्यत इति पुराणम् । सृष्टौ प्रथम १. 'उपसर्पिणी'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy