SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । (नेपथ्ये गीयते ।) दिणअरकिरणुक्केरो पिआअरो को वि जीअलोअस्य । कमलमउलंकवालीकिअमहुअरकडणविअड्डो ॥ १३ ॥ सूत्रधारः—(आकर्ण्य ।) कथमुपक्रान्तमेव नर्तकैः, यदियं दशरथोसङ्गादामभद्राकर्षिणो विश्वामित्रस्य प्रावेशिकी ध्रुवा । (पुरोऽवलोक्य ससंभ्रमम् । अये, कथमत्रैव तत्रभवतः कमलयोनिजन्मनो मुनेरायतनात्प्रतिनिवृत्तेन ऋत्विजा वामदेवेन किमपि तद्वाचिकमभिधीयमानो महाराजो दशरथस्तिष्ठति । तदेहि । न द्वयोस्तृतीयेन भवितव्यमित्यावामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ ।) प्रस्तावना । र्यशः, सौरभ्यं सौगन्ध्यम् , यशः सुगन्धीति कविसंप्रदायसिद्धम् । यथा तस्यैव श्वेतत्वम् । प्रशस्तिरिति ‘क्तिच्क्तौ च संज्ञायाम्' इति तिच् । सौरभ्यं स्यात्तु सौगन्ध्ये सौभाग्ये गुणगौरवे । ख्याततायां मनोज्ञत्वे सौरभ्यं प्रवदन्ति हि ॥' इति विश्वः । 'प्रशस्तिश्च प्रशंसायां कीर्तावपि निगद्यते' इति धरणिः । 'आहावस्तु निपानं स्यादुपकूपजलाशये' इत्यमरः ॥ नेपथ्य इति । रङ्गभूमेबहिस्थानं यत्तन्नेपथ्यमुच्यते' इति भरतः । 'नेपथ्यं वर्णिका क्षितिः' इति च । अधुना नृत्योपक्रमव्याजेन प्रथमाङ्कस्य पर्यवसितमर्थ सूचयन्ध्रुवामाह-दिणअरेति । 'दिनकर किरणोत्करः प्रियाकरः कोऽपि जीवलोकस्य । कमलमुकुलाङ्कपालीकृतमधुकरकर्षणविदग्धः ॥' [इति च्छाया ।] दिनकरकिरणोत्करः सूर्यतेजःसमूहः । अस्तीति शेषं दत्त्वा योज्यम् । कीदृशः । जीवलोकस्य प्राणिवर्गस्य कोऽप्यनिर्वचनीयः प्रियाकरः प्रियकारकः कमलमुकुलेनेषद्विकसितकमलकलिकयाङ्कपालीकृतः क्रोडीकृतो यो मधुकरो भ्रमरस्तस्य कर्षणे बहिःकरणे विदग्धः कुशलः । ते. जःसंबन्धेन कमलदलप्रकाशात् । 'अङ्कपाली परिरम्भः' इति मेदिनीकरः । प्रिया. कर इत्यत्र 'सुखप्रियादानुलोम्ये' इति डाच् । 'विदग्धश्चतुरे खिङ्गे नागरे कुशलेऽपि च' इति विश्वः । अधुना दिणअरेत्यादि गाथया सूचितमर्थ प्रकटयति-यदियमिति। उत्सङ्गः कोड: । प्रादेशिकी प्रवेशसूचिका । ध्रुवा गीतिभेदः । तथा च भरत:-'धुवा तु गीतिभेदोऽयं वृन्दसामा(?) निबध्यते' इति । सा च पञ्चधा । तथाहि.-'प्रावेशिकी निष्कामणी परिकामण्यवस्थितिः । उत्थापनी तु पञ्चम्या ध्रुवा नाट्यार्थसिद्धये ॥ तत्र १. एकस्मिन्मूलपुस्तके 'नद्वयोस्तृतीयेन भवितव्यमिति निष्क्रान्तौ' इत्येतावदेव पाठः. भाति चायमेव पाठष्टीकाकारसंमतः. अस्माभिस्तु बहुपुस्तकानुरोधेन 'इत्यावामप्यनन्तरकरणीयाय सज्जीभवावः' इत्यधिकः पाठः स्वीकृतः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy