SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ काव्यमाला। सप्तमोऽङ्कः। (नेपथ्ये ।) तमिस्रामूर्छालत्रिजगदगदंकारकिरणे ___ रघूणां गोत्रस्य प्रसवितरि देवे सवितरि । पुरस्थे दिक्पालैः सह परगृहावासवचना ____ प्रविष्टा वैदेही दहनमथ शुद्धा च निरगात् ॥ १ ॥ अयमपि एकैकानि शिरांसि राक्षसचमूचक्रस्य हुत्वा निजे तेजोग्नौ दशकण्ठमूर्धभिरथो निर्माय पूर्णाहुतिम् । अद्य वस्त्ययनं समाप्य जगतो लङ्केन्द्रबैन्दीवृतां सीतामप्यवलोक्य शोकरभसव्रीडाजडो राघवः ॥ २ ॥ क्रमेण च सहैव सुग्रीवविभीषणाभ्यां सौमित्रिसीतापरिपूर्णपार्श्वः । उपैति वैवस्वतवंशवृत्तमेध्यामयोध्यामथ पुष्पकेण ॥३॥ (युग्मम्) तमिस्रति । वैदेही सीता परगृहे रावणगृहे आवासश्चिरावस्थानं तद्रूपाद्वचनाद्धेतोः शुद्धयर्थ दहनमग्निं प्रविष्टा । अथानन्तरं शुद्धा सती निरगानिर्गता बभूव । दहनादित्यर्थात् । दिक्पालैः सह रघूणां गोत्रस्य प्रसवितरि जनके सवितरि सूर्ये पुरःस्थेऽग्रस्थे सति । परीक्षा हि वंश्यस्यान्यस्य च महतोऽग्रे क्रियत इति समाचारः । तमिस्रा रात्रिस्तस्यां मूर्छा निद्रा तया युक्तं यत्रिजगत्तस्यागदंकारो वैद्यः । प्रकाशकर्तेति यावत् । किरणो यस्य तादृशे । मूर्छाल इत्यत्र 'सिध्मादिभ्यश्च' इति लच् । अगदंकार इति कर्मण्यण् । 'कारे सत्यागदस्य' इति मुम् । एकैकानीति । एकैकान्यनेकानि । प्रतीयमानबहुत्वाद्बहुवचनम् । अन्यराक्षसशिरांसि हुत्वा रावणशिरोभिः पूर्णाहुतिः । होमसमाप्ता हि पूर्णाहुतिः क्रियत इति समाचार इति भावः । स्वस्ति कल्याणं तस्यायनं वर्त्म वस्त्ययनं शान्तिकपौष्टिकं कर्म । 'अयनं पथि भानोरुदग्दक्षिणतो गतौ' इति मेदिनीकरः । वृतां वेष्टिताम् । सकलवराकनिशाचराणां सहसैव समूलमुन्मूलनाच्छोकः । सीतायाः प्राप्तेर्विशुद्धिज्ञानाच्च रभसः निष्करुणेन मया सीताविशुद्धिं जानतापि प्रियतमा साग्निप्रवेशं कारितेति व्रीडा । यद्वा बन्दीकृतसीतावलोकनाद्रीडा । एतै रसैर्जडो निष्क्रियः अयमपि राघव इत्यन्वयः । सहैवेति । विवस्वतः सूर्यस्यापत्यं वैवखतो मनुः । वृत्तं व्यापारः । मेध्यां पवित्राम् । 'मेध्यं त्रिषु शुचौ' इति विश्वः । पुष्पकेण १. 'अयमपि'. २. 'बन्दीकृता'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy