________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
काव्यमाला । भिन्नैरावणगन्धसिन्धुरशिरःसंपातिभिर्मोक्तिकैः
शश्वद्विश्वजयप्रशस्तिरचनावर्णावलीशिल्पिने । नाकान्तःपुरिकाकपोलविलसत्काश्मीरपत्राङ्कुर
श्रीविन्यासविलासभीषणभुजस्तम्भाय तुभ्यं नमः ॥ ७८ ॥ (निर्वर्ण्य ।) सखे रत्नचूड,
ध्रुवं पतितपतिकंधरकबन्धपीडाभरा
निजावनमनक्रमोन्नमितचक्रवालाचलम् । महीवलयमर्धकुण्डलितविग्रहाधारक
प्रतीष्टफणमण्डलो वहति काद्रवेयाधिपः ॥ ७९ ॥ रत्नचूड:-सखे, सर्वमतिशायि रावणस्य । पुरापि खलु
चलति जगतीजैत्रे यत्र स्वभोगिचमूभटै
र्वलयितमहादेहस्तम्भो बिभर्ति भुवस्तलम् ।
वाचकान्यमूनि' इत्यमरः । पर्यवसितोऽसि समाप्तोऽसि । भिन्नेत्यादि । हे रावण, तुभ्यं नमः । अस्विति शेषः । भिन्नं द्विधाकृतम् । ऐरावण ऐरावतः स एव गन्धसिन्धुरो गन्धगजस्तस्य यच्छिरो मस्तकं तस्मात्संपातिभिः संपतनशीलैमौक्तिकैः करणभूतैः शश्वद्वारंवारं विश्वविजयेन प्रशस्तिरचना प्रशंसाग्रथना तदर्थ या वर्णावल्यक्षरपक्तिस्तस्याः शिल्पिने घटकाय । नाकस्यान्तःपुरिकाणामप्सरसां कपोले विलसन्तो ये काश्मीरपत्राङ्कुराः कुङ्कुमपत्रावल्यस्तेषु श्रीविन्यासविलासे भीषणा भुजस्तम्भा यस्य तस्मै । श्रीः शोभा । विन्यासो विक्षेपः । दूरीकरणमिति यावत् । तत्पतिवधात् । अत एव भुजस्तम्भानामपि भीषणत्वमिति भावः । तुभ्यमिति 'नमःखस्ति-' इत्यादिना चतुर्थी । ध्रुवमित्यादि । काद्रवेयाधिपः सर्पराजः शेषः, अर्धे कुण्डलितः संकुचितो विग्रहः काय एवाधारक आधारस्तेन प्रतीष्टो धृतः फणमण्डलो येन तादृशः सन्महीवलयं वहति धारयति । ध्रुवं निश्चये । पतितो यः पतिकंधरस्य दशग्रीवस्य रावणस्य कबन्धस्तेन पीडाभराद्यन्त्रणातिशयानिजावनमनक्रमेणोन्नमिताश्चक्रवालाचलाः कुलपर्वता गन्धमादनादयो येन तादृशम् । रावणकबन्धभरेण महीवलयस्याधोगमनेन पर्वतानामुच्चत्वं वृत्तमिति भावः । अतिशाय्यतिशयितम् । चलतीति । यत्र रावणे जगतीजैत्रे भुवनजेतरि चलति सति अहीश्वरो वासुकिः फणाभिर्भुवस्तलं बिभर्ति दधाति । कीदृशः । स्वभोगिचमूभटैः स्वीयसर्पसेनाभटैर्वलयितो वेष्टितो महादेहस्तम्भो
१. 'विनाश'. २. 'जयतां जैत्रे'.
For Private and Personal Use Only