SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० काव्यमाला। तस्मिन्नपि रुधिरदर्शनं कुर्वाणेन भवता दर्शितेयं सुरासुरवीरातिशायिनी हस्तवत्ता । रत्नचूड:-अहह, विपक्षगिरामुद्गारेण सर्वग्रन्थिगुरुणा दूरं दीप्यमानस्य सुविनिहितचन्द्रहासव्रणकिणवलयोपहसितहारेषु । रामस्य मार्गणगणाः पतन्ति दशकण्ठकण्ठेषु ॥ ७१ ॥ हेमाङ्गदः-(सचमत्कारम् ।) सखे, पश्य पश्य-अनुरूपवीरसंवादप्रमोदभरद्विगुणितावष्टम्भसंक्षोभितभुवनत्रयस्य निरन्तरप्रहीयमाणबाणञ्जरमध्यवर्तिना रामभद्रेण क्रीडाशकुन्तकौतुकं पूर्यते राक्षसराजस्य । नूनमिदानीम् उदञ्चन्न्यञ्चद्भूविवृतनिभृतानामनुफणं मणीनां विद्युद्भिः क्षणमुषितपातालतिमिरः । भुजक्रीडावल्गदशमुखपदन्यासगरिम प्रगल्भैनिःश्वासैरजनि भुजगानामधिपतिः ॥ ७२ ।। तुषारमयमाभरणं भूषणं बभूव । अतिशायिनी जयनशीला । हस्तवत्ता प्रशस्तहस्तयोगित्वम् । प्रशंसायां मतुप् । 'चक्रं सुदर्शनः' इत्यमरः। विपक्षो रावणः । उद्गारेण भाषणेन । ग्रन्थिम्रन्थना । दूरमत्यर्थम् । सुविनिहितेति । दशकण्ठकण्ठेषु कीदृशेषु । शिवाराधनावसरे शिरश्छेदार्थ सुष्टु यथा स्यादेवं विनिहितो धृतो यश्चन्द्रहासो रावणखगस्तस्य व्रणकिणवलयेन क्षतचिह्नवेष्टनेनोपहसितो निन्दितो हारो यत्र तादृशेषु । चन्द्रहासव्रणप्ररोहणाद्धारकृत्यं चन्द्रहासत्रणरेखयैव कृतमिति भावः। संवादो मिलनम् । सादृश्यमिति यावत् । अवष्टम्भो गर्वः । प्रहीयमाणः प्रक्षिप्यमाणः । वेष्टनाद्वाण एव पञ्जरम् । शकुन्तः पक्षी। अन्योऽपि क्रीडापक्षी पञ्जरमध्ये तिष्ठतीति ध्वनिः । उदश्चदित्यादि । भुजगानामधिपतिः सर्पराजो वासुकिः । अनुफणं फणां फणामनु । वीप्सायामव्ययीभावः । मणीनां विद्युद्भिरिव विद्युद्भिर्दीप्तिभिः क्षणं मुषितं दूरीकृतं पातालतिमिरं येन तादृशोऽजनि जातः । निःश्वासैर्लक्षितः । कीदृशैः । भुजक्रीडया वल्गंश्चलन्यो दशमुखस्तस्य पदन्यासगरिम्णा चरणार्पणगुरुत्वेन पीडनात्प्रगल्भैरुपचितैः । मणीनां कीदृशानाम् । उदञ्चन्त्युनता भवन्ती न्यञ्चन्ती निम्ना भवन्ती या भूस्तया विवृतानां १. 'वाहिनी'. २. देदीप्यमानस्य'; 'कम्पमानस्य'. ३. 'प्रमोदद्विगुणित-'. ४. 'पजरवर्तिना'. ५. 'आपूर्यते'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy