SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः] अनर्घराघवम् । २४५ दर्पोऽयं भवतः सुरासुरचमूदोःकाण्डकण्डूविष. ____ ज्वालाजाङ्गलिकेन जङ्गलभुजां पत्यापि न त्याजितः । येनैन्द्रे रथवर्मणी रघुशिशोरस्योपनीते त्वया राजद्विष्टमिदं विधाय स कथं शक्तोऽपि वर्तिष्यते ॥ ५५ ॥ रत्नचड:-(श्रुतिमभिनीय।) किमाह रामः-सत्यमिदं भोः । यच्छीलः खामी तच्छीलास्तस्य प्रकृतयः । यदेवमपि स्वामिनो ऍलोच्छेदिना दुर्नयेन विकत्थन्ते । हेमाङ्गदः--(आकाशे कर्णं दत्त्वा ।) किमाह रावणः-अरे तापसबटो, क्रोधेन ज्वलिता मुहूर्तमनु च खैरेव निर्वापिताः ___ क्लीबैरश्रुमहोर्मिभिर्मखभुजां पत्युः सहस्रं दृशः । यैदृष्टा भुवनत्रयीविजयिभिः सर्वकषाः सन्त्यमी ते संप्रत्यपि मे नयापनययोर्निर्वाहमूलं भुजाः ॥ ५६ ॥ रत्नचूड:-( कर्ण दत्त्वा विहस्य ।) किमाह रामःछित्त्वा मूर्ध्नः किमिति स वृतो धूर्जटिर्यद्यमीषां दोःस्तम्भानां त्रिभुवनजयश्रीरियं वास्तवी ते । ण्डः । कण्डूस्तेजस्तदेव विषं तस्य ज्वालाया जाङ्गलिकेन विषवैयेन । जङ्गलं मांसम् । तद्धञ्जते जङ्गलभुजो राक्षसाः। 'किप च' इति क्वि । तेषां पत्या रावणेन येन हेतुना ऐन्द्रे इन्द्रसंबन्धिनी रथश्च वर्म च रथवर्मणी । वर्म संनाहः । उपनीते उपढौकिते । राज्ञो द्विष्टं द्वेषः । भावे क्तः । कथं वर्तिष्यते कथं स्थास्यति । रावणादिति शेषः । तस्यापि नाशहेतोरुपस्थितिरिति भावः । जाङ्गलिक इति । 'जाङ्गली विषविद्यायाम्' इति मेदिनीकरः । जाङ्गलीमधीते वेत्ति वा जाङ्गलिकः । अध्यात्मादित्वाट्ठञ् । 'जङ्गलं निर्जलस्थाने त्रिलिङ्गयां पिशितेऽस्त्रियाम्' इति मेदिनीकरः । प्रकृतयः परिजनाः । विकत्थन्ते श्लाघन्ते । आत्मानं प्रशंसन्ति वा । विकत्थनमात्मप्रशंसेति शाब्दिकाः । क्रोधनेति । अनु पश्चानिर्वापिता निस्तेजीकृताः । क्लीवैविक्रमशून्यैः । यैर्भुजैरिन्द्रस्य सहस्रं दृशो दृष्टा इति संबन्धः । अपनयो दुर्नयः । नयानयसमर्था इत्यर्थः । मूलशब्दस्याजहल्लि. गतया भुजा इत्यनेन विशेषणविशेष्यभावः । मूलवं च सर्वेषां भुजानां साधारण्येनेति सामान्यविवक्षायामेकवचनता मूलमिति । ते संप्रतीति । तथा च तैरेव वामपि हनिष्यामीति भावः । छित्त्वेति । मूनों मस्तकानि छित्त्वा वृतः प्रार्थितः । सोल्लुण्ठ १. 'सत्यम्' इत्यस्मात्पूर्व पुस्तकान्तरे 'अनुवदति' इत्यधिकमस्ति. एवमग्रेऽपि. २. 'प्रभुः'. ३. 'तदेवम्.' ४. 'मूलोच्छेदेन'. ५. 'ज्वलता'. ६. 'अपि च.' For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy