SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ काव्यमाला। इत्यभिदधानेनैवोत्प्लुत्य निर्दयं शिरसि ताडितो रथध्वजदण्डावलम्बी कथंचिदाश्वसिति रावणः । (सर्वतोऽवलोक्य सहर्षम् ।) सखे, पश्य पश्य । यन्माल्यग्रथनावशेषविकलैः संतानकै किनां भर्ने गर्भगमेव दाम निभृतं खर्मालिकैर्गुम्फितम् । तस्मिन्नद्य दशास्यमूर्धनि नवप्रस्तावनामापदां __ पश्यन्तो रभसौषभर्सितभियः क्रोशन्ति नः स्यन्दनाः ।। ४९ ॥ हेमाङ्गदः—(सविषादम् ।) अहह, सोऽप्याश्वस्य दशकण्ठेनापि मुष्टिना ताडितो मूर्छितः कपीन्द्रो नीलहनूमद्भयामाश्वस्यमानोऽपसार्यते । रत्नचूड:-सखे, प्रधनस्य हि प्रथमे पर्वणि शतकृत्वो विजयन्ते पराजीयन्ते च वीराः । तत्र को विषादः । हेमाङ्गदः—(अन्यतोऽवलोक्य ।) सखे, रत्नचूड, दिष्ट्या वर्धसे यदयमनुप्राप्तः कुशिकसुतसपर्यादृष्टदिव्यास्त्रतन्त्रो __ भृगुपतिसहयुध्वा वीरभोगीणबाहुः । विदुः ॥' यथा मालतीमाधवम् । यन्माल्येति । रभसौघेन हर्षातिशयेन भत्सिता तिरस्कृता भीभयं येषां तादृशाः सन्तो नोऽस्माकं स्यन्दना रथाः, तात्स्थ्यात्तदारोहा वा, क्रोशन्ति शब्दं कुर्वन्ति। कीदृशाः । तस्मिन्नपि दशास्यमूर्धनि आपदां विपत्तीनां नवप्रस्तावनां नूतनविभावनां पश्यन्तः । यस्य मू! माल्यं माला तथनादवशेषास्त्यक्ताः अत एव विकलाः कीटादिविद्धा ये तैः संतानकैः पुष्पभेदैर्नाकिनां भर्चे इन्द्राय गर्भगं केशमध्यगतमेव दाम माला निभृतं गुप्तं यथा स्यादेवं रावणभयात्खालिकैर्देवमालाकारैर्गुम्फितं प्रथितम् । एतादृशस्यापि रावणस्यापदं पश्यतां क्रोशनं युक्तमेव । 'केशमध्ये तु गर्भकम्' इत्यमरः । भर्ने इति तादर्थं चतुर्थी । मुष्टिनेति 'मुष्टिद्वयोः' इत्यमरात्पुंल्लिङ्गता । आश्वास्यमानो जलादिनाश्वास कार्यमाणः । अपसार्यते स्थानान्तरं नीयते । प्रधनं युद्धं तस्य प्रथमपर्व आद्योत्सवः । 'प्रधनं रणनाशयोः' इति विश्वः। शतकृत्वः शतवारान् । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' दिष्टयेति हर्षाभिव्यञकम् । वर्धसे साभ्युदयोऽसीत्यर्थः । कुशिकसुतेति । सपर्या सत्कारः। तत्रं शास्त्रम् । भृ. गुपतिः परशुरामः । तेन सह युवा सहयुद्धवान् । 'सहे च' इति क्वनिप् । वीरभोगाय १. 'इत्यभिधायानेन'. २. 'गर्भकम्'. ३. 'निभृतैः'. ४. 'सोऽपि' इति पुस्तकान्तरे नास्ति. ५. 'हि' इति पुस्तकान्तरे नास्ति. ६. 'महावीराः'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy