SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | हेमाङ्गदः– (क्षणं निर्वर्ण्य 1) अहो, क्षुद्रैरपि संभूय भूयोभिरेको महा न्सुकरः कदर्थयितुम् । यतः । दृप्यद्दिक्पालदन्तावलबहल मदावमहोग्राभिरक्ष्णां ताराभिर्दीप्यमानं दिशि विदिशि दशग्रीवमुग्रीवयन्तः । एते निःशेषसेतुग्रथनसमधिकैः शस्त्रिणः शैलपादै रुद्दामानः कपीन्द्रा रजनिचरपुरीमुत्तरेण प्लवन्ते ॥ ३८ ॥ रत्नचूड: – (सविषादम् ।) हन्त महद्विषममिव पश्यामि । यदमी निष्कृपकृपाणपाट्यमानप्रतिभटविकटोरः कपाटकण्टकित कपोलभित्तयः सं तानपातिनीभिरनीकरुधिरधाराभिरतिप्रवृद्धवीरपाणगोष्ठीमहोत्सवाः समन्ता - दभिद्रवन्ति यातुधानाः लैवं गमयूथपतीन् । हेमाङ्गदः -- ( सहर्षम् ) सखे, कृतं विषादेन । यदेष दशमुखशरपीडितापयानोद्यमपरिपुच्छयमानवानराणि । सरभसमभिसान्त्वयन्वलानि द्विपमभियोधयति लवंगराजः ॥ ३९ ॥ भिर्बहुतरैः । कदर्थयितुं पीडयितुम् । हृप्यदिति । एते कपीन्द्रा रजनिचरपुरीं लङ्कामुत्तरेण प्लवन्ते गच्छन्ति । शैलानां पर्वतानां पादैः प्रत्यन्तपर्वतैः शस्त्रिणः शस्त्रयुक्ताः । अत एवोद्दामानः प्रबला दिशि विदिशि दशग्रीवमुद्रीवयन्तः । उद्गता चासौ ग्रीवा उद्भीवा तथा पश्यन्तः । 'कर्तृकरणाद्धात्वर्थे' इति णिच् । यद्वा उगीवं कुर्वन्ति । कीदृशम् । दृप्यन्तो ये दिक्पालदन्तावला दिग्दन्तिनस्तेषां प्रचुरमदानामवग्रहे दृष्टिप्रतिवन्धे उग्राभिरक्ष्णां ताराभिर्गोलकैर्दीप्यमानम् । ग्रथनं निर्माणम् । समधिकमुद्वृत्तम् । उत्तरेणेति अन्ययोऽयम् । 'एनबन्यतरस्यामदूरे पञ्चम्याः' इत्येनप् । रजनिचरपुरीमिति "एनपा द्वितीया' इति द्वितीया । पादाः प्रत्यन्तपर्वताः' इत्यमरः । विषमतुल्यमन्यादृशम् । कृपाणः खड्गः । प्रतिभटः शत्रुयोधः । कण्टकितो रोमाञ्चितः । संतानपातिनीभिरनवच्छेदपतनशीलाभिः अनीकं सैन्यम् । 'युद्धे यत्क्रियते पानं वीरपाणं तदुच्यते' इति हारावली । अभिद्रवन्त्यभिमुखं धावन्ति । कृतं निष्फलम् । 'कृतं क्लीबं तु निष्फले' इत्यमरः । अपयानं पलायनम् । परिपुच्छयमानः पुच्छं पर्यस्यन् । इतस्ततो नयन्नित्यर्थः । 'पुच्छभाण्डचीवराण्णिडू' । अभिसान्त्वयन्प्रियवचनेनोत्साहयन् । अभियोधयत्यभिमुखं संप्रहारयति । लवंगराजः सुग्रीवः । अहहेत्याश्चर्ये । प्लवगाधिपेन वान १. ‘प्रतिभटोर:’; ‘प्रतिभटविकटोर : '. २. 'संतत ' ३ 'प्रधानयूथपतीन् '. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy