SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ काव्यमाला। सारण:-(श्रुत्वा सहर्षम् ।) आर्य, जातं जातमवलम्बनम् । यदयं प्रतिबुध्य कुमारकुम्भकर्णः पुरस्कृत्य च मेघनादमभ्यमित्रीणः संवृत्तः । । माल्यवान्—(निःश्वस्य ।) खस्ति विजयेतां रामलक्ष्मणौ कुम्भकर्णमेधनादौ । शुकः-(सविषादमात्मगतम् ।) शान्तं शान्तम् । कथमविशिष्टकर्तृकमभावमुभयत्र द्विवचनं प्रयुक्तमार्येण । माल्यवान्-(सखेदम् । वत्सौ शुकसारणौ, अद्य खल्वियं राक्षसलक्ष्मीः सर्वथा कुम्भकर्णमवलम्ब्य वर्तते । इदं तु न विद्मः । अग्रजं वा दशग्रीवमनुजं वा विभीषणम् । अन्वयव्यतिरेकाभ्यां वीरः कमभिषेक्ष्यति ॥ १९॥ (नेपथ्ये।) मा भैष्टं कमठेन्द्रपन्नगपती कश्चिन्न वैशेषिको भूमेरद्य भरः पतिः पलभुजामाज्ञापयत्येष वाम् । वेशने' उपपूर्वः । लोटि मध्यमपुरुषबहुवचने 'धि च' इति सलोपः । कीदृशाम् । उद्धरा उद्योगिनो ये शरास्तेषां ज्वाला तेजस्तदेव मुखं यस्यास्ताम् । अन्यापि ज्वालामुखी देवता भवतीति ध्वनिः । अद्यापि रामाद्भयमस्ति । अपि तु नास्ति भयमिति । इन्द्रजितोऽपि मेघनादस्यापि चित्तं लक्ष्मणवधे बद्ध उत्सवो येन तादृशं जातम् । मध्यमः पौलस्त्यः कुम्भकर्ण आयुधं शस्त्रं धृतवान् । अतो रामाद्भयं न विधेयमिति भावः । रामादिति 'भीत्रार्थानां भयहेतुः' इत्यपादानता । पुरस्कृत्याग्रतः कृत्वा । अभ्यमित्रीणो रणे शत्रोरभिमुखगामी । 'अभ्यमित्राच्छ च' इति चकारात्खः । विजयेतां रामलक्ष्मणावित्यत्र रामलक्ष्मणौ कर्मभूतौ । कर्तृपरत्वभ्रान्त्या सविषादमाह-शान्तमिति । उभयत्रेति । रामलक्ष्मणावित्यत्र कुम्भकर्णमेघनादावित्यत्र चेत्यर्थः । अन्वयव्यतिरे. काभ्यां जयपराजयाभ्यामित्यर्थः । अन्वयेनाग्रज ज्येष्ठम्, व्यतिरेकेणानुजं कनिष्ठम् । रावणादीनां मरणादिति भावः । वीरः कुम्भकर्णः । मा भैष्टमित्यादि । पलं मांसं भुञ्जते पलभुजो राक्षसास्तेषां पतिः स्वामी रावणः, हे कमठेन्द्रपन्नगपती कूर्मराजसर्पराजौ, वा युवामित्याज्ञापयति-भूमेवैशेषिको विशेषभवः । अध्यात्मादित्वाञ् । कश्चिन्न भरः अतो मा भैष्टं मा भयं कुरुतम् । कुम्भकर्णस्यातिगुरुशरीरपातेन भूमेरधिको भरः स्यात् । तथा च तद्धारकत्वादावामपि भरभागिनौ भवाव इति भयं मा १. 'जातम्' इत्येकवारमेव पुस्तकान्तरे. २. 'मेघनादौ च'. ३. 'राजलक्ष्मीः '. ४. 'अवलम्बते'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy