________________
Shri Mahavir Jain Aradhana Kendra
२२२
www.kobatirth.org
काव्यमाला
-
सारण:
- (सखेदमाकाशे ।) हा देव पुलस्त्यनन्दन, कथं भवतव वैधर्म्यदृष्टान्तेन मानतो मूलोच्छेदनिमित्तान्निवर्तिष्यते लोकः । (साभ्यर्थनं च ।) अरिषड्डुर्ग एवायमस्यास्तात पदानि षट् ।
तेषामेकमपि च्छिन्दन्खञ्जय भ्रमरीं श्रियम् ॥ ९ ॥
(मन्त्रिणं प्रति ।) आर्य, यत्सत्यं राघवेण व्यूढां वानरवरूथिनीमुत्प्रेक्ष्य शङ्के — विभीषण ऎव यद्यस्माकं कुलतन्तुरवशिष्यते ।
-
-( निःश्वस्य ।) त्स, द्वयोरपि कटकयोस्तत्त्वज्ञोऽसि । त
Acharya Shri Kailassagarsuri Gyanmandir
माल्यवान् - त्किमिदानीमुचितम् ।
सारण:-- आर्य, नन्वेवं ब्रवीमि — राजपुत्रोऽङ्गदोऽसौ बालो नवबुद्धिराँमपात्रमिव यद्यदाधीयते तत्तदाचुचूषति ।
माल्यवान् — ततः किम् ।
सारणः— ततश्च भवतः पितृवैरिणौ रामसुग्रीवौ व्यापाद्य किष्किन्धायां भवन्तमभिषिच्य वालिसौहृदस्यात्मानमनृणमिच्छाम इति गूढयद्वा विरुद्ध धर्मों विगतो वा धर्मो विधर्मः । ततः स्वार्थिकः ष्यञ् । वैधर्म्य धर्माभावस्तेन दृष्टोऽन्तो नाशो यस्य तेन । निवृत्तौ हेतुमाह-मानतः । कीदृशात् । मूलं रावणस्तस्योच्छेदो नाशस्तद्धेतोः । तथा च माने सति रावणो नष्टः । तन्मानं न युक्तमिति लोको निवृत्तिं करिष्यतीति भावः | अधुनोपदेशमाह—अरीति । हे तात मान्य रावण । श्रियं भ्रमरीमिति व्यस्तरूपकम् । श्रियं भ्रमरीं लक्ष्मीं भ्रमरवधूं खञ्जय खञ्जां कुरु । यद्वा भ्रमरीं भ्रमणशीलाम् । अस्याः श्रीभ्रमर्या अरिः षडुर्गोऽरिषडुर्ग: कामक्रोधलोभमोहमदमानरूपः स एव षट् पदानि तेषां पदानां मध्ये एकमपि पदं छिन्दन्द्वैधीकुर्वन्सन् । तथा च कामादीनामेकत्यागादपि सीतापरित्यागः । तेन च श्रीः खञ्ज स्थिरा भवति । अन्यथा कामादिसत्त्वात्तव लक्ष्मीः स्थिरा न भविष्यति, अपि तु राममेवाश्रयिष्यतीति भावः । व्यूढां विन्यस्ताम् । 'व्यूढं तु बलविन्यासे' इति विश्वः । वरूथिनी सेना । उत्प्रेक्ष्य उच्चैर्दृष्ट्रा । तन्तुरिव तन्तुः सूत्रम् । आममपक्कं पात्रं शरावादि । आधीयते आरोप्यते । आचुचूषति पिबति । 'चूष पाने' । सौहृदं सुहृद्भावः। ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिर्न भवति । तत्रार्थवतो हृच्छब्दस्य ग्रहणात् । ‘सुहृद्दुर्हृदौ मित्रामित्रयो:' इति निपातसमुदायस्यार्थवत्त्वात् । एकदेशे चात १. 'अनुमानतः ' २. 'भ्रामरीम्'. ३. 'एवास्य'. ४. 'वत्स' इति पुस्तकान्तरे नास्ति. ५. 'बालोऽसौ ' . ६ . ' आममिव पात्रम्'. ७. 'अनृणमात्मानम्'; 'आनृण्यमात्मनः '. ८. 'निरूढ'.
For Private and Personal Use Only