SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ अङ्कः] अनर्घराघवम् । २१५ दिकूलमुद्वहयशःसरिदादिशैलः शेते स वीरशयने कपिचक्रवर्ती ॥ ५३ ॥ लक्ष्मणः-(सखेदम् ।) हा देव संक्रन्दन, क पुनरीदृशं महावीरप्रकाण्डमात्मजं सहस्रेणापि लोचनैरालोकयिष्यसि । (नेपथ्ये दुन्दुभिध्वनिर्मङ्गलगीतिश्च ।)। गुहः—(सहर्षम् ।) कथमयमार्यजाम्बवदभिमन्त्रितैः शातकुम्भकलशैनीलः कुमारसुग्रीवमभिषिञ्चति । खयं चास्य देवो दाशरथिः कार्तस्वरपुण्डरीकमालया कण्ठमलंकरोति । लक्ष्मणः-प्रियतरं नः ।। (नेपथ्ये ।) भो भो वानराच्छभल्लगोलाङ्गुलयूथपतयः, सर्वानेष वो महाराजः सुग्रीवः समाज्ञापयति-सज्जयन्तु भवन्तः सर्वाणि यौवराज्योपकरणानि । अयमहं सीतादेव्याः प्रवृत्तिमन्वेष्टुं प्रहित्य हनुमन्तमूर्ध्वमौहूर्तिके लग्ने कुमारमङ्गदमभिषेक्ष्यामि' इति । लक्ष्मणः उत्सवः सोऽयमस्माकं सर्वथा हृदयंगमः । किं तु वाली विलीनोऽयं व्यथयिष्यति वासवम् ॥ ५४ ॥ दामतन्तुना दाशरथये रामाय विहितमातिथेयं येन सः । दिगेव कूलं दिकूलम् । तदुद्वहते । 'उदि कूले रुजिवहोः' इति खश् । दिकूलमुद्वहा तादृशी यश एव सरिनदी तस्या आदिशैलः प्रभवपर्वतः। पर्वतादेव नदीनामुत्पत्तिः। अत्र च पर्वतसदृशाद्वालिनो यशःसरिदुत्पत्तिरित्यर्थः । प्रकाण्डमिव प्रकाण्डम् । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः' इत्यमरः । व पुनरालोकयिष्यसि । तस्य स्वर्गगमनात् । दुन्दुभिभैरीति प्रसिद्ध वाद्यम् । 'भेर्यामानकदुन्दुभी' इत्यमरः । शातकुम्भकलशैः सुवर्णघटैः । कार्तस्वरं सुवर्णम् । अच्छभल्लगोलाङ्गलप्रभृतयो वानरविशेषाः । प्रवृत्तिं वार्ताम् । ऊर्ध्व मुहूर्तादूर्ध्वमुहूर्तम् । 'सुप्सुपा-' इति योगविभागात्समासः । तत्र भवमूर्ध्वमौहूर्तिकम् । अध्यात्मादित्वाइज। 'उत्तरपदस्य' इति वृद्धिः । सोऽयमङ्गदाभिषेकरूप उत्सवः। हृदयं १. 'अवलोकयिष्यति'. २. 'शातकुम्भकुम्भसलिलै:'. ३. 'कण्ठकाण्डम्'. ४. 'प्रियाप्रियतरम्'; 'प्रियम्'. ५. 'गोलालप्रभृतयो यूथपतयः'. ६. 'सज्जयन्तु सज्जयन्तु'. ७. 'औज़मौहर्तिके काले'. ८. 'इति' इति पुस्तकान्तरे नास्ति. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy