SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ काव्यमाला। किं तु । येनाच्छिद्य समस्तपार्थिवकुलप्राणान्तकं कार्मुकं रामः संप्रति लम्भितो भृगुभुवामुत्सर्गसिद्धां स्नुचम् । द्रष्टुं वीर चिराय धाम भवतस्तद्भूर्भुवःवस्त्रयी हृन्मर्मव्रणरोपणौषधमिमौ बाहू बहूत्ताम्यतः ॥ ४६॥ रामः-(सस्मितम् ।) नन्वेतदधिमौर्वीकं युद्धसर्वखदक्षिणम् । सैजमस्त्येव मे रक्षोलक्ष्मीमूलहरं धनुः ॥ ४७ ॥ तन्महाभागोऽपि शस्त्रमादत्ताम् । वाली—(विहस्य ।) साधु भो महाक्षत्रिय, यथाधर्ममभिदधासि । किं तु । नयो हि साङ्घामिक एष दोप्मतां यदात्मजातिप्रतिबद्धमायुधम् । अयःकुशीभिः कपयो न शस्त्रिणस्तलं च मुष्टिश्च नखाश्च सन्ति नः ॥४८॥ लक्ष्मणः-आर्य, साधूक्तं महाभागेन । नित्योपनतस्वाङ्गशस्त्रैव तैरश्ची जातिः। ममृततुल्यां वाचं शृण्वतो मम मानसं न तृप्यति । तर्हि केन तृप्यतीत्यत आह–किं त्वित्यादि । हे वीर, भवतस्तद्धाम तेजो द्रष्टुमिमौ मे वाहू बहु यथा स्यादेवमुत्ताम्यतो ग्लानीभवतः । वीरेति साक्षेपं संबोधनम् । तत्कतरत् । येन धान्ना सकलराजकुलप्राणान्तकं कार्मुकमाच्छिद्याकृष्य रामः परशुरामो भृगुभुवामुत्सर्गसिद्धां साहजिकी उचं हो. मपात्रं लम्भितः प्रापितः । तपखितां नीत इत्यर्थः। भुवस्त्यागादिति भावः । 'उत्सर्गशुद्धाम्' इति पाठे उत्सर्गस्त्यागस्तेन शुद्धाम् । दानात्प्रभृति परशुरामेण स्वभूमित्यागात्, स्रुचो ग्रहणाच्च । भूर्भवःखस्त्रयी त्रिलोकी रोपणं व्रणापनयनम् । सापेक्षमाह-नन्वेतदिति । अधिमौवींकं दत्तगुणम् । युद्धसर्वस्वदक्षिणं युद्धं सर्वस्वदक्षिणा यस्य तत् । अन्योऽपि तुष्टो यस्य भवति तस्य सर्वखं दक्षिणां दत्ते। इदमपि युद्धमेव ददातीति भावः । यद्वा युद्धमेव सर्वखदक्षिणो यागो यत्र तत् । मूलं कारागारं तद्धरतीति मूलहरम् । यद्वा मूलं रावण एव कारणं तद्धरम् । आदत्तां गृह्णातु। 'आङो दोऽनास्य वि. हरणे' इति तङ् । सङ्ग्रामाय प्रभवति साङ्ग्रामिकः । 'प्रभवति' इति ठक् । दोष्मतां वाहुबलशालिनाम् । प्रतिबद्धं संबद्धम् । 'प्रतिरूपम्' इति पाठे तुल्यमित्यर्थः । अयःकुशी लोहफालं काण्डादि । यद्वा लोहविकारः । 'कुशी फाले कुशी रज्ज्वां विकारमयसः १. 'शोषणौषध-'. २. 'सज्यम्'. ३. 'किं पुनः'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy