SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। बिभ्यहिभ्यत्प्रविशति ततः पर्णशालां च भिक्षु धिक्कष्टं भोः प्रथयति निजामाकृतिं रावणोऽयम् ॥ ७ ॥ अहह । आर्यपुत्रार्यपुत्रेति रुदन्तीं कुररीमिव । रथमारोप्य वैदेहीमेष पापः क यास्यति ॥ ८ ॥ (साटोपं परिक्रामन् ।) अरेरे रावण,, वधूटीमिक्ष्वाकोनिजकरतलस्पर्शमलिना___ मिमां कुर्वाणस्य स्फुरति हृदि शोभैव भवतः । कुले येषां किं तु त्वमसि गणितास्तेऽपि गुरवो ___ न सप्त ब्रह्माणः कथमिव पुलस्त्यप्रभृतयः ॥ ९॥ (पुनराकाशे ।) अलीकाट्टहासधूमधूसरितदशवक्रवल्मीक, किमात्थ रे राक्षसापसद, किमात्थ । 'जगद्विलोभिसीताख्यमामिषं हरतो मम । अयं किल जरदृध्रः करादाच्छिद्य नेष्यति' ॥ १० ॥ इति । आः पाप, कथमेवमभिदधासि । तिष्ठ तिष्ठ । भुजविटपमदेन व्यर्थमन्धंभविष्णु धिंगपसरसि चौरंकारमाक्रुश्यमानः । भयहेतुः' इत्यपादानता । धिक्कष्टं भोरित्यव्ययसमुदायः खेदे । धिक्कष्टं भोश्चापि खेदे' इति भरतः । निजामाकृति दशमुखादिवरूपाम् । प्रथयति प्रकाशयति । 'आर्यपुत्रेति संबोध्यः पतिः पत्नीजनेन तु' इति भरतः । कुररी ‘हापुती' इति प्रसिद्धा चटकविशेषस्त्री। 'वधूटी वर्धटी जनी' इत्यमरः । मलिनां दूषिताम् । तव हृदि शोभैव स्फुरति । अपि तु शोभा न युक्ता । सप्त ब्रह्माणः सप्तर्षयः । येषामिति निर्धारणे षष्ठी। तस्य पुलस्त्यस्यापत्यत्वात् अलीकं मिथ्या । अट्टहासो महाहासः । अपसदोऽधमः । आमिषं भोग्यवस्तु । उत्कृष्टरूपं मांसं वा । 'उत्कृष्टे पलले भोगे भोग्यवस्तुनि चामिषम्' इति विश्वः । किल निश्चये वाक्यभूषायां वा । आच्छिद्य गृहीत्वा । भुजेति । भुजा एव विटपाः शाखास्तेषां मदेन गर्वेण व्यर्थ निष्फलमेवान्धंभविष्णुरन्धीभवन्संस्त्वं यदपसरस्यपयासि तद्धिक् । अनन्ध एवान्धो भवति । 'कर्तरि भुवः-' इति खिष्णुच् । १. 'विग्धिक्कष्टम्'. २. 'इति साटोपम्'. ३. 'इति' इति पुस्तकान्तरे नास्ति. ४. 'कथमभिदधासि'. ५. 'आकृष्यमाणः'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy