SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ अङ्कः अनर्घराधवम् । १९१ श्रवणा-आर्य, किमिदानीमनुष्ठेयमस्ति । मम हि शिष्यपुत्रो निपादचक्रवर्ती गुहो लक्ष्मणमित्रम् । अनेन सोपानेन सुखाधिरोहो रघुपतिरस्साकम् । जाम्बवान्---(सहर्षस्मितम् ।) श्रवणे, यद्यसि सुग्रीवपक्षपातिनी । तद्वच्छ सत्वरमुपस्थापय निषादराजम् । (इति श्रवणा निष्क्रान्ता ।) (नेपथ्ये । एकतः ।) भो भो लक्ष्मण, वैशेषिककटन्दीपण्डितो जगद्विजयमानः पर्यटामि । कासौ रोमः । तेन सह विवदिष्ये । (अन्यतः ।) भो भो परिव्राजक, कालसर्पखलीकारखर्जूलता न खलु सुखाकरी वृश्चिकमन्त्रतान्त्रिकस्य । जाम्बवान् कथं लक्ष्मणपरिव्राजको संलपतः । शृणोमि तावत् । (इत्यवधत्ते ।) (नेपथ्ये । पुनरेकतः ।) आः लक्ष्मण, सर्वविद्रावणः खल्वहम् । को मया जनितमानभङ्गो न पराजीयते । मुग्रीवः ईषत्करः सुकरः। सोपानेनोपायेन । 'कटकली' इति प्रसिद्धेन । उपस्थापय लक्ष्मणसंनिधि प्रस्थापय । 'निषादराजानम्' इति पाठे समासान्तविधेरनित्यत्वं शरणम् । नेपथ्ये रावणवचनम् । कटन्दी वैशेषिकशास्त्रव्याख्याग्रन्थः । कटन्द इति यस्य प्र. सिद्धिः । सा च रावणेन कृतेति च्छलतो ज्ञापयति । 'कन्दली' इति पाठे कन्दली वैशेषिकटीका । सापि रावणेनैव कृता । अथ च कन्दली कलहवान् । पण्डितः सूरिः कुशलश्च । विवदिष्ये उदाहं करिष्ये योत्स्ये च । 'भासनोप-' इति तङ् । अन्यतच लक्ष्मणवचनम् । खलीकारो भर्सनम् । तत्र खजूः कण्डूः । तद्योगात्सिध्मादित्वाल्लच् । तस्य भावः खर्जूलता । न मुखाकरी न मुखजनिका। 'मुखप्रियादानुलोम्ये' इति डाच् । बृश्चिकमन्त्रतान्त्रिकस्य वृश्चिकमन्त्रज्ञातसिद्धान्तस्य । वृश्चिकः शूककीटः। 'वीछ' इति प्रसिद्धः । 'वृश्चिकः शूककीटौषधिविशेषयोः' इति विश्वः । 'तान्त्रिको ज्ञातसिद्धान्तः' इत्यमरः । संलपतः संलापं कुरुतः । 'संलापो भाषणं मिथः' इत्यमरः । सर्व विद्रावयतीति सर्वविद्रावणः सर्वविप्लवकर्ता । अथ च सर्ववित्सर्वज्ञो रावणः । अनयोः पुरः १. 'सत्यमसि'. २. 'पण्डितोऽस्मि'. ३. 'ते रामभद्रः'. ४. 'विवदितव्यम्'. ५. 'कथं पथि'. ६. 'मिथः प्रलपतः', 'संप्रलपतः'. ७. 'इत्यवधत्ते' इति पुस्तकान्तरे नास्ति. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy