SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] अनर्घराववम् । १७१ हारस्य तत्रभवतः परमे ब्रह्मणि वर्तमानस्य पुनरुपप्लवन्ते बुद्धयः । तद्विरम, कियच्चिरमितः परमपि नाटयिष्यति भवन्तमायुधपिशाची । जामदग्न्यः-(विहस्य ।) अहो याज्यस्नेहः शतजन्दमाकुलयति । भवतु, सान्त्वयामि तावदेनम् । (तदभिमुखम् ।) आङ्गिर ।, नृपस्ते पाल्योऽयं मम पशुपुरोडाशरसिकः । पृथिव्यामव्याजोद्भटभुजभृतः सन्ति रघवः । अमीषामुत्सितं किमपि कुलमुत्कृत्य लवशो विधाता तत्सर्वं यदभिरुचितं ते भृगुपतिः ॥ ४३ ॥ (नेपथ्ये।) आः पाप क्षेत्रियायाः पुत्र क्षत्रियभ्रूणहत्यापातकिन्, निसर्गनिष्प्राणं हि प्रहरणमिक्ष्वाकूणां ब्राह्मणेषु । तैर्यादृशस्तादृशो वा सोढव्योऽसि । कथमेवमतिक्रामन्नस्माकमपि ब्रह्मवर्चसान्न बिभेषि । जामदग्यः-(सरोषहासम् । अरे ब्रह्मबन्धो बान्धकिनेय गौतमगोत्रपांसन, कुर्युः शस्त्रकथाममी यदि मनोवैशे मनुष्याङ्कुराः स्याच्चेद्ब्रह्मगणोऽयमाकृतिगणस्तरेष्यते चेद्भवान् । न:पुन्यं भृशार्थो वा । तत्रभवतो मान्यस्य । तवेति शेषः। ब्रह्म तत्त्वम् । उपप्लवन्तेऽस्थिरीभवन्ति । पिशाची तृष्णा । याज्यत इति याज्यो यागशिष्यः। नृप इति । ते नवायं नृपो जनको मम पाल्यो रक्षणीयः । पशुश्छागो मृगो वा । पुरोडाशो हविर्भेदः । तथा च पशुपुरोडाशरसिकोयं तपस्वी वराको न हन्तव्य इति भावः। क्रोधान्धोऽपि मान्यतया प्रवोधायाह-अमीषां रघूणामुत्सिक्तमुद्धतं कुलं लवशो लेशं लेशं कृत्वोत्कृय खण्डयित्वा यत्ते तुभ्यमभिरुचितं तव प्रीतिविषयस्तत्सर्वे भृगुपतिर्विधाता करिष्यति । रामभद्रविनाशवर्ज सकलमभिमतं ते करिष्यामीति भावः । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । नेपथ्ये पुनः शतानन्दवचनम्। आः कोपे । क्षत्रियायाः पुत्र । कुत्सितक्षत्रियायाः पुत्रेयर्थः । 'षष्ठ्या आकोशे' इत्यलुकू । भ्रूणो गर्भः । हत्या हननम् । 'हनस्त च' इति भावे क्विप् । तश्चान्तादेशः । निसर्गनिष्प्राणं खभावबलशून्यम् । ब्रह्मवर्चसं बह्मतेजः । यद्वा वृत्ताध्ययनसंपत् । 'स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिः' इत्यमरः । 'ब्रह्महस्ति. भ्यां वर्चसः' इत्यच् । वर्चसादिति 'भीत्रार्थानां भयहेतुः'इत्यपादानता। ब्रह्मवन्धो कुत्सितब्राह्मण । 'ब्रह्मवन्धुरधिक्षेपे' इत्यमरः । बान्धकिनेयोऽसतीपुत्रः। 'अथ वान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः' इत्यमरः। कुयुरिति । मनोवंशे कुले अमी मनुष्याङ्कुरा मनुष्य १. 'भवतः'. २. 'विरम विरम'. ३. 'इयमपरमपि'. ४. 'परवन्तम्. ५. 'क्षत्रियापुत्र'. ६. 'अतिक्रमन्'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy