SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६६ www.kobatirth.org काव्यमाला | जामदग्यः —– (सरोषम् ।) आः क्षुद्रक्षत्रियडिम्भ, कथं प्रमथनाथप्रथमान्तेवासिनं परशुराममपि भवान्नाजीगणत् । महासेनो यस्य प्रमदयमदंष्ट्रासहचरैः Acharya Shri Kailassagarsuri Gyanmandir शरैर्मुक्तो जीवन्द्विरिव शरजन्मा समभवत् । इमां च क्षत्राणां भुजवनमहादुर्गविषमामयं वीरो वारानजयदुपविंशान्वसुमतीम् ॥ ३२ ॥ रामः– शान्तं शान्तम् । प्रसीद भगवन् । अविमृष्यकारितया न गणितोऽसि । न पुनरवलेपात् । स्त्रीषु प्रवीरजननी जननी तवैव देवी स्वयं भगवती गिरिजापि यस्यै । त्वद्दोर्वशीकृतविशाखमुखावलोक व्रीडाविदीर्णहृदया स्पृह्यांबभूव ॥ ३३ ॥ जामदम्य: – (विहस्य 1) रे राजन्यपोत, अनुभवपुनरुक्तां मुञ्च नः स्तोत्रचर्या - मुपनमय तदेतत्कौशिकोपज्ञमस्त्रम् । लितमित्यर्थः । अमङ्गलं धनुर्भङ्गरूपम् । आः कोपे । प्रमथनाथः शिवः । 'पिनाकी प्रमथाधिपः' इत्यमरः । नाजीगणन्न गणितवान् । 'गण संख्याने' । णिच् । लुङ् । च्लेश्चङ् । 'ई च गण:' इत्यभ्यास ईकारः । महासेन इति । महासेनः कार्तिकेयः । 'कार्तिकेयो महासेनः शरजन्मा' इत्यमरः । यस्य मम यमदन्ततुल्यैः शरैर्मुक्तस्त्यक्तः सन् द्विरिव द्वौ वारौ शरजन्मा समभवद्वृत्तः । शरवणे जातत्वात्प्रथमं शरजन्मेति, पुनरपि परशुरामराराज्जातत्वादस्य वारद्वयं शरजन्मत्वमिति भावः । सोऽयं परशुराम उपविंशानेकविंशतिवारान्वसुमतीं पृथ्वीमजयज्जितवान् । क्षत्राणां भुजवनेन महादुर्गामत एव विषमां कठिनाम् । प्रमदो दृप्तोऽतिमत्तो वा । द्विरिति । 'द्वित्रिचतुर्भ्यः सुच्' । उपविंशानिति । उपगता निकटस्था विंशतिर्येषां तान् । एकविंशानित्यर्थः । 'अवलेपः स्मृतो गर्वें' इति विश्वः । स्त्रीष्विति । स्त्रीषु मध्ये प्रवीरजननी प्रकृष्टवीरसवित्री । जननी माता । गिरिजा गौरी यस्यै त्वन्मात्रे स्पृहयांबभूव स्पृहां चकार । गौरवं कृतवतीत्यर्थः । 'स्पृहेरीप्सितः' इति संप्रदानता । वशीकृतो निष्पीडितः । विशाख: कार्तिकेयः । 'विशाखः शिखिवाहनः ' इत्यमरः । विदीर्णमिव विदीर्णम् | परशुरामेण कौतुकेनैव बाहुपीडनेन १. 'क्षुद्र' इति पुस्तकान्तरे नास्ति २. 'प्रसीद' इति पुस्तकान्तरे नास्ति. ३. 'रे राजन्यपोत' इति पुस्तकान्तरे नास्ति. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy