SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः अनर्धराघवम् । तत्कस्यचिदभिमतरसभावभाजः प्रेक्षणकस्य प्रयोगानुज्ञया नाट्यवेदोपाध्यायबहुरूपान्तेवासी मध्यदेशीयः सुचरितो नाम भरतपुत्रोऽहमनुगृह्ये । यतः । प्रीतिर्नाम सदस्यानां प्रिया रङ्गोपजीविनः । जित्वा तदपहर्तारमेष प्रत्याहरामि ताम् ॥ ३ ॥ त्वादुत्तमपदस्य पूर्वनिपातापत्तिः । न च पुरुषेषूत्तम इति विगृह्य समासः । तथा सति 'न निर्धारणे' इति सूत्रमनारभ्यं स्यात् । सप्तमीसमासेनैव सर्वत्र चरितार्थत्वात् । तथाप्यत्र पुरुषाणामुत्तम इति षष्टीसमास एव । निर्धारणस्य विवक्षणात् , तदभिव्यञ्जकपदाभावात् , जातिगुणादेरश्रवणात् । यद्वा ‘पञ्चमी' इति योगविभागात्समासः । पुरुषेभ्य उत्तमः पुरुषोत्तम इति । 'यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥' इति गीतासु भगवद्वचनात् । काव्यदर्पणकारास्तु---'न निर्धारणे इति प्रतिषेधस्य तु स विषयो यत्र निर्धारणावधिर्निर्धार्यमाणं निर्धारणनिमित्तं च त्रितयमुपादीयते । यथा पुरुषाणां क्षत्रियः शूरतम इत्यत्र तु त्रितयं नोपात्तमिति नासौ तद्विषयः' इत्याहुः ।. 'यात्रा स्याद्यापनायां च गतौ देवार्चनोत्सवे' इति धरणिः । उपस्थानीया इत्यत्र 'भव्यगेय-' इत्यादिनिपातनात्कर्तर्यनीयर् । 'सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते' इत्यमरः । भूयिष्ठामिति 'बहोर्लोपो भू च बहोः' इति बहुशब्दस्य भूभावः । 'इष्टस्य यिट् च' इति यिडागमः ॥ तत्कस्यचिदिति । यतोऽयं लोक उद्विग्नस्तत्तस्मात् । अभिमतः प्रेमपात्रं यो रसः शृङ्गारादिस्तद्भावमभिप्रायं भजते । 'भजो ण्विः' । तस्य प्रेक्षणकस्य नाटकस्य प्रयोगानुज्ञया प्रयुक्त्यनुशासनेन भरतपुत्रो नटपुत्रोऽहमनुगृह्येऽनुग्रहणीयः। तेनेति शेषः। लोकोद्वेगशान्त्यर्थमनुग्रह इति भावः । 'भरता इत्यपि नटाः' इति धरणिः । अनुगृह्य इति कर्मणि लट् । प्रकृष्टमीक्षणं दर्शनं यत्रेति प्रेक्षणकं नाटकम् । क्वचित् 'प्रेक्षणकस्य' इति पाठः । तत्रापि प्रेक्षणकस्य नाटकस्येत्यर्थः । इखिधातुर्गत्यर्थो दण्डकस्थस्तत्र करणे ल्युट प्रपूर्वः । ततः संज्ञायां कन् । कीदृशोऽहम् । नाम प्रसिद्धौ । सुचरितः । नामपदस्य संज्ञार्थत्वे 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीयया भाव्यमित्यवधेयम् । पुनः कीदृशः । नाट्यं नृत्यं तत्र वेदस्तस्योपाध्यायो व्याख्याता । नानामषीनेपथ्यग्रहणाहुर्ग(बहु)रूपस्तन्नामा वा कश्चित्तस्यान्तेवासी शिष्यः । मध्यदेशो भरतखण्डस्तत्समुद्भवश्च । 'अवस्था या तु लोकस्य सुखदुःखसमुद्भवा । तदीयानुकृतिः प्राज्ञैर्नाट्यमित्यभिधीयते ॥' इति भरतः । मध्यदेशीयत्वेनातिविज्ञता प्रदर्शिता । यदाह भरतः—'भरतं वर्षमाश्रित्य कर्तव्यं नाटकादिकम् । स्थानान्तरे समुद्भतिर्यतो न सुखदुःखयोः ॥' इति । अनुग्रहे हेतुमाह-यत इति । नाम संभावनायाम् । यतो यस्मात्सदस्यानां पारिषदानां या प्रीतिः सा मम रङ्गोपजीविनो नटस्य प्रियापेक्षिता । तस्याः प्रीतेरपहारमपहारकं कलहक अन० २ For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy