________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
काव्यमाला।
. माल्यवन्--(दृष्ट्वा सस्नेहम् ।) कथं वत्सा शूर्पणखा । वत्से, अयमहम् । इत इतो भवती।
शूर्पणखा-कधं इह जेव्व अदालअसिहरपग्गीवे मादामहो । अहो दुसिलिट्ठता दद्धकजाणम् । जं दाणिं पजागरकिलिअन्तलोअणो पडिक्खणजिम्भिआपसारिदमुहकुहरदिट्टहिअअद्विदकठिणकजभारो अण्णो विअ को वि दीसदि । अहवा सामण्णो वि गुरुओ मन्तिभावो विसेसेण साहसेकरसव्ववसाअस्स चण्डचरिदस्स अह्मसामिणो रावणस्स । जाणामि मं जेव्व पडिपालअन्तो चिट्ठदि । जाव णं उबसप्पामि । (सविषादमुपसृत्य ।) अज्ज, वन्दे ।
माल्यवान्-वत्से, कल्याणिनी भूयाः । इहास्यताम् । अपि भरतशत्रुघ्नाभ्यां मिथिलामुपस्थितो दशरथः ।
शूर्पणखा—(उपविश्य 1) अज्ज, दसरहे आअदे कुमाराणं गोदाणमङ्गले अ संवुत्ते दाव मए पत्तं मिहिलाणअरम् । काणि प्रेक्षमाणा जुगुप्सितेन निन्दितेनापि मायामानुषीभावेन कपटमानुषीत्वेन कृतार्थीकृतास्मि । अम्मो वितर्के देशीयं पदम् । सा तादृशी गुणानां प्रकृतिः खभावो वा विपक्षहस्ते पतितापि सुखयति । इतोऽत्रोपविशामि, अस्मि वा । कधं इह जेव्वेत्यादि । 'कथमिहैवाट्टालकशिखरप्रग्रीवे मातामहः। अहो दुःश्लिष्टता दग्धकार्याणाम् । यदिदानी प्रजागरक्लान्तलोचनः प्रतिक्षणजृम्भाप्रसारितमुखकुहरदृष्टहृदयस्थितकठिन कार्यभारोऽन्य इव कोऽपि दृश्यसे । अथवा सामान्योऽपि गुरुको मन्त्रिभावो विशेषेण साहसैकरसव्यवसायस्य चण्डचरितस्यास्माकं स्वामिनो रावणस्य । जानामि मामेव प्रतिपालयस्तिष्टति । यावदेनमुपसर्पामि। आर्य, वन्दे' [इति च्छाया ।इहाहालकं 'अटारी' इति प्रसिद्धं घनधारणस्थानम्। शिखरमग्रम्। प्रग्रीवं प्राङ्गणम्। मातामहो माल्यवान्। दुःश्लिष्टता दुःखदताम् । दग्धकार्याणां निन्दितकार्याणाम् । 'दग्धहतकनिन्दिनानि कुत्सायाम्' इति शाब्दाः । जृम्भा 'हांफी' इति प्रसिद्धा । कठिनं दुष्करं गुरु वा । गुरुकोऽसह्यः । व्यवसायो व्यापारः । चण्डं तीक्ष्णम् । रावणस्य । कृते इति शेषः । रावणं लक्षीकृत्य मन्त्रिभावोऽतिदुष्कर इत्यर्थः । यावच्छब्दो यस्मादर्थे । यत्तदोर्नित्याभिसंबन्धात् । यस्मान्मां प्रतिपालयस्तिष्टति तदेनमुपसमीत्यर्थः । अपिः प्रश्ने । शूर्पणखावाक्ये—'आर्य, दशरथे आगते कुमाराणां गोदानमङ्गले च संवृत्ते तावन्मया प्राप्तं मिथिलानगरम्' इति
---------------------.-.. ... ... - ......-.-.
१. 'कल्याणिनि, इहास्यताम्'. २. 'सह वैदेहमुपस्थितः'; 'शत्रुघ्नाभ्यामुपस्थितः'.
For Private and Personal Use Only