SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ काव्यमाला | त्मानम् । नहि मिहिरमरीचिनि चयपचेलिमस्य तुहिनकरबिम्बसंवादादपरोऽपि कश्चिदगदंकारः कैरवाकरस्य । ( इत्युत्थाय परिक्रामतः 1) शौष्कलः– (सखेदमाकाशे । ) हा तपखिनि सीते, हतासि । पौलसत्यप्रार्थितापि विचार्यसे । त्रिभुवनविजयश्रियः सपलीं जनयतु को भवतीमनात्मतन्त्राम् । स्वजनमपि न ते निरूपयामः कमपि विपाट्य भुवं विनिर्गतासि ॥ ५८ ॥ (सरोषं जनकं प्रति ।) सीरध्वज, पौराणीभिरनेकविक्रमकथागाथाभिरर्थापिता स्ते वीरस्य जयन्ति राक्षसपतेर्दोः स्तम्भदम्भोलयः । यानुत्प्रेक्ष्य विशोषयन्मदमयं मैरेय मैरावणो भूषास्रग्भिरभूदमात्यमधुपश्रेणीषु साधारणः ॥ ५९ ॥ सा सीता' इति रामायणम् । अपमार्छु खण्डयितुं शोधयितुं वा । निर्वापयामि सुखयामि । अलीकं मिथ्या निष्फलं वा । कदर्थितं संतापितम् । दृष्टान्तमाह -नहीति । मिहिरः सूर्यः । निचयः समूहः । परिचयः संबन्धः । पचेलिमस्य पच्यमानस्य । स्वयं कथ्यमानस्येति यावत् । 'केलिमर उपसंख्यानम्' इति कर्मकर्तरि केलिमर् | अगदंकारः संकोचरूपव्याधेरपहर्ता । 'कारे सलागदस्य' इति मुम् । कैरवाकरस्य कुमुदसमूहस्य | " आकरो निवोत्पत्तिस्थानकोशेषु कथ्यते' इति मेदिनीकरः । हे तपस्विन्यनुकम्प्ये ॥ चराकीति यावत् । अनात्मतन्त्रां पराधीनाम् । आद्योऽपिर्निन्दायाम् । निन्दितं खजनमित्यर्थः । द्वितीयोऽपिः समुच्चये । विपाट्य विदार्य । नयेन सीताया अप्राप्तिमवधार्य पराक्रमेण रावणः सीतां परिणेष्यतीति जनकमुत्रासयितुं रावणभुजपराक्रममाहपौराणीभिरिति । राक्षसपते रावणस्य ते दोः स्तम्भदम्भोलयो बाहुस्तम्भवज्राणि जयन्ति । दोःस्तम्भदम्भोलय इति रूपकरूपकम् । कीदृशाः । पौराणीभिः पुराणभवाभिरनेकपराक्रमकथागाथाभिरर्थापिता अभिधेयीकृताः । व्याख्याता इत्यर्थः । 'तत्करोति-' इति णिच् । ‘अर्थवेदसत्यानामापुक्' । के ते । ऐरावण इन्द्रहस्ती यान्बाहूनुत्प्रेक्ष्य दृष्ट्वा मदो हर्षस्तस्मादागतम् । 'हेतुमनुष्येभ्यो मयट्' इति मयट् । यद्वा मदमयं मत्ततामयम् । मैरेयं मद्यं विशोषयन्सन् । यद्वायमैरावणो मदं दानं मैरेयं मद्यजातम् । कारणे कार्योपचारात् । विशोषयंस्त्रासात् । भूषास्रग्भिरलंकरणमालाभिरमात्यमधुपश्रे १. 'परिचय-'. २. 'हिमकर - ' ३ 'अपि' इति पुस्तकान्तरे नास्ति. ४. 'कैरवकेदारस्य'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy