SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० काव्यमाला । शतानन्दः-(जनककर्णे एवमेवं कथयित्वा ।) भगवन्विश्वामित्र, ममापि चन्द्रशेखरशरासनारोपणप्रथमप्रियवादिनः पारितोषकं धारयसि । विश्वामित्र:-(विहस्य ।) वत्स, दीयते । किमभिप्रैषि । शतानन्दः-कुशध्वजदुहितृभ्यां माण्डवीश्रुतकीर्तिभ्यां भरतशत्रुघ्नावभ्यर्थये । विश्वामित्रः-ऐवमस्तु । (शतानन्दं हस्ते गृहीत्वा सस्मितम् ।) वत्स, सर्वमस्माभिर्विधातव्यम् । आगमयख तावद्दशरथम् । जनकः--तर्हि प्रहीयतामेष एव भगवानाङ्गिरसः प्रियसुहृदमुत्तरको शलेश्वरमानेतुम् । विश्वामित्रः:-एवमस्तु । शतानन्दः-(उत्थाय ।) भगवन् , किमन्यदधिकमस्ति वाचिकम् । विश्वामित्रः-वत्स, निसृष्टार्थोऽसि । गम्यताम् । (इति शतानन्दो निष्क्रान्तः ।) विश्वामित्रः--(हर्षं नाटयनात्मगतम् ।) दोलीलादलितेन्दुशेखरधनुर्विख्यातविक्रान्तिना काकुत्स्थेन कृतो विदेहनृपतिः पूर्णप्रतिज्ञाभरः । । प्रीयमाणः' इति संप्रदानता। कर्णे एवमेवेति । कुशध्वजदुहितरावपि भरतशत्रुघ्नाभ्यां दीयतामिति रहः कथनीयम् । पारितोषकं परितोषभवं दानम् । अध्यात्मादित्वाहकू । ममेति ‘धारेरुत्तमणः' इति संप्रदानता न भवति । उत्तमर्णत्वाभावात् । अभिप्रेषि प्रार्थयसे । माण्डवीश्रुतकीर्तिभ्यामिति तादर्थ्य चतुर्थी । अभ्यर्थये। वरत्वेनेति शेषः । आगमयख प्रतीक्षस्व । 'आगमेः क्षमायाम्' इति तङ् । उत्तरकोशलायोध्या तस्या ईश्वरो दशरथः । वाचिकं संदेशवाक् । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । निसृष्टार्थ ऊहापोहसमर्थो दूतविशेषः । तदुक्तम्-'उभयोभीवमाश्रित्य परापेक्षाविवर्जितम् । स्व. बुद्ध्या कुरुते कार्य निसृष्टार्थः प्रकीर्तितः ॥' इति । दोर्लीलेति । काकुत्स्थेन रामेण विदेहनृपतिर्जनकः पूर्णः प्रतिज्ञाभरो यस्य तादृशः कृतः । महादेवकार्मुकाकर्षणादिति १. 'जनकस्य कर्ण एवमेवमिति'. २. 'एवमस्तु' इति पुस्तकान्तरे नास्ति. ३. 'एव' इति पुस्तकान्तरे नास्ति. ४. 'उत्थाय' इति पुस्तकान्तरे नास्ति. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy