SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० काव्यमाला। निसर्गोदप्रमिदं च कुमारद्वयम् । पार्श्वे त्रयाणामेतेषामृक्सामयजुषामिव । रूपाभ्यां विधिमन्त्राभ्यामथर्वेव प्रदीप्यते ॥ ३५ ॥ (विमृश्य ।) आः, नूनं स एव लक्ष्मणद्वितीयो रामहतकः कौशिकमषिमनुप्लवमानो मिथिलामुपस्थितः । (सक्रोधशोकम् ।) हा वत्से सुकेतुनन्दिनि ताडके, कथमीदृशान्मनुष्यडिम्भात्तादृशो दैवदुर्विपाकस्ते संवृत्तः । कष्टमनरण्यवंशजन्मनः क्षत्रियशिशोरनात्मवेदिता । सुन्दासुरेन्द्रसुतशोणितसीधुपान___ दुर्मत्तमार्गणनिरर्गलवीरशब्दः । द्रोहं चकार दशकण्ठकुटुम्बकेऽपि सोऽयं बटुः कुशिकनन्दनयज्ञबन्धुः ॥ ३६॥ भवतु । द्रष्टव्यमस्य भुजाशौण्डीर्यम् । (उपसृत्य ।) अपि सुखिनो यूयं जनकमिश्राः। स्तयोः । 'पुण्यं शोभने त्रिषु' इति मेदिनीकरः । 'व्यञ्जनं तेमने चिह्ने' इति च । उदअस्तेजस्वी। पार्श्व इत्यादि । इदं कुमारद्वयं रूपाभ्यामाकाराभ्यां प्रदीप्यते प्रकाश्यते । यथा विधिमन्त्राभ्यां रूपाभ्यां ग्रन्थावृत्तिभ्यामथर्वा वेदभेदः । प्रकाश्यते तथेत्यर्थः । विधिमन्त्रावथर्वणो रूपे । 'ग्रन्थावृत्तौ भवेद्रूपमाकारलेषयोरपि' इति विश्वः । अथर्ववेदोऽभिचारप्रतिपादकः । कौशिकऋषिमित्यत्र 'ऋत्यकः' इति प्रकृतिवद्भावः । अनुप्लवमानोऽनुगच्छन् । सुकेतुनन्दिनि सुकेतुसुते । संबोधनम् । मनुष्यडिम्भान्मनुष्यशिशोः । 'डिम्भो बालिशबालयोः' इति विश्वः । दुर्विपाको दुष्टो विपाकः । कर्मणो विसदृक्फलमित्यर्थः । 'विपाकः पटले खेदे कर्मणो विसदृक्फले' इति मेदिनीकरः । अनरण्यो राजा दशरथस्य सपिण्डः । स च रावणेन मारित इति तदपकर्षसूचनम् । सुन्दासुरेन्द्रेति । सोऽयं बटुर्ब्रह्मचारी रामो दशकण्ठकुटुम्बकेऽपि रावणस्य प्रशस्तबन्धुवर्गेऽपि द्रोहं मारणं चकार । सुन्दनामासुरेन्द्रः स च ताडकापतिस्तस्य मुतः सुबाहुस्तस्य शोणितमेव रुधिरमेव सीधुर्मद्यं तस्य पानेन दुर्मत्ता अतिमत्ता ये मार्गणा बाणास्तैनिरर्ग. लोऽप्रतिरुद्धो वीररूपः शब्दो यस्य स तथा । 'मैरेयमासवः सीधुः' इत्यमरः । 'कलम्बमार्गणशराः' इति च । शौण्डीर्य सुभटत्वम् । मिश्रा मुख्याः । स्वागतं मुष्टु आगमनं १. 'चेदम्'. २. 'आः' इति पुस्तकान्तरे नास्ति. ३. 'एषः'. ४. 'मुनिम्'; 'ऋपिम्। इति पुस्तकान्तरे नास्ति. ५. 'मिथिलायाम्'. ६. 'हा' इति पुस्तकान्तरे नास्ति. ७. 'विपाकोऽयं ते वृत्तः'. ८. 'अनरण्यजन्मनः'. ९.'बटोः'. १०.'गर्वः'. ११. 'भुजाशौटीयम्'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy