SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] अनर्घराघवम् । श्रुतिग्राह्यं ज्योतिः किमपि बहिरन्तर्मलमुषो मृजाया मज्जानः क नु विपरियन्ति द्विजगिरः ॥ १९ ॥ शतानन्दः-(स्वगतम् ।) नूनं रामभद्रमेव जामातरमभिसंधाय भगवानयं पुनः पुनर्वक्रोक्तिभिः सीरध्वजं परिमोहयते । भवतु । अहमस्य प्ररोचनार्थमसंविदान इव पृच्छामि । (प्रकाशम् ।) भगवन् , कस्येदं शकुन्तराजकेतोरिव कौस्तुभश्रीवत्सौ रत्नद्वयम् ।। विश्वामित्र:-(विहस्य स्वगतम् ।) साधु वत्स शतानन्द, साधु । यदेतत्कृतं तीर्थ विवक्षितस्य वस्तुनः सुखावताराय । (प्रकाशम् ।) वत्स गौतम, ककुत्स्थकुलसंभवौ कुमारावेतौ । शतानन्दः -(सप्रत्यभिज्ञमिव ।) पुत्रार्थे जगदेकजाकिययूद्दामभ्रमत्कीर्तिना चातुर्होत्रवितीर्णविश्ववसुधाचक्रेण चक्रे मखः । दूरादेव तदसंगमादेव । अत एव तासामस्थानमपि । दूरादिति भावप्रधानो निर्देशः । तथा च दूरत्वादपथं शुचामित्यर्थः । त्रिवेदीवाक्यानां खिला इवाप्रहतभूमय इव । 'खिलमप्रहतेऽपि स्यात्' इति मेदिनीकरः । कीदृशाः खिलाः । अनतिचिरभन्नास्तत्कालकृष्टाः । गिरोऽपि तत्कालदत्ताः । पुनः कीदृश्यो गिरः । श्रुतिग्राह्यं कर्णग्राह्यं किमप्यनिर्वचनीयं ज्योतिः शब्दब्रह्म । तत्त्वप्रकाशकत्वात् । 'श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । मलं पापम् । बहिरन्तर्मलमुषो बाह्याभ्यन्तरमलापहारिकाः । यद्वा बहिर्योतिरिति व्यस्तरूपकम् । अन्तर्मलमुषोऽन्तःपापापहारिकाः। मृजायाः शुद्धर्मज्जानः सारभागाः । विपरियन्तीति विपरिपूर्वादिणो लटि 'इणो यण' इति यणादेशः । अपथमिति ‘पथः संख्याव्ययादेः' इति क्लीबत्वम् । 'सारो मजा नरि' इत्यमरः। परिमोहयत इत्यत्र 'न पादम्याङ्-' इति परस्मैपदनिषेधे 'णिचश्च' इति तङ् । प्ररोचनमभिलाषः। असंविदान इवाजानन्निव । 'विद ज्ञाने' । 'समो गम्-' इति तङ् । कस्येदं दारकद्वयं वालकद्वयमिति संबन्धः । शकुन्तराजकेतोः कौस्तुभश्रीवत्सरत्नद्वयमिव । शकुन्तराजः पक्षिराजो गरुडः स केतुश्चिद्रं यस्य स विष्णुः । श्रीवत्सः कृष्णस्य मणि: कौस्तुभोऽपि । तीर्थ सोपानकम् । 'कटकली' इति प्रसिद्धम् । 'तीर्थ सोपानपतौ स्यात्' इति धरणिः । अवतारो ज्ञानमवतरणं च । पूर्वप्रकाशितासंविदानत्वस्थापनायाह-सप्रत्यभिज्ञमिवेति । पूर्वानुभूतस्य तत्तदन्ताविशिष्टतया ज्ञानं प्रत्यभिज्ञा । तत्सहितं यथा स्यादेवमित्यर्थः । 'समक्षदिग्भागमिव' इति पाठे ज्ञातैकदेशमिवेत्यर्थः । पुत्रार्थ इत्यादि । पति १. 'रामचन्द्रमेव'. २. 'पुनर्वक्रोक्तिभिः'. ३. 'मोहयते'. ४. 'कुमाररत्नद्वयम्'. ५. 'विहस्य' इति पुस्तकान्तरे नास्ति. ६. 'तीर्थमिव'. ७. 'शतानन्द'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy