________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
काव्यमाला।
कञ्चकी-नन्वेतावेव देवतागारवेदिकायां
मुनीन्कौशिकवैदेहगौतमानभिराध्यतः।
ढौकितौ ज्ञानकर्मभ्यां मोक्षखर्गाविव खयम् ॥ ९ ॥ तदेहि । महच्चिरमागतानामस्माकम् । 'कन्यान्तःपुरमेव गच्छामः ।
(इति निष्क्रान्तौ।)
विष्कम्भकः । (ततः प्रविशति जनको विश्वामित्रशतानन्दौ रामलक्ष्मणौ च ।) जनकः-(सहर्षम् ।) भगवन्विश्वामित्र,
लुम्पन्नदृष्टजामातृसंपदां शुचमद्य नः ।
त्वदागमनजन्मायमानन्दः सुदिनायते ॥ १० ॥ अपि च ।
अद्य प्रदक्षिणशिखावलयः कृशानु__ रश्नाति मे जनपदेषु वषट्कृतानि । त्वत्तेजसि स्फुरति शान्तिकपौष्टिकेषु
खां च मुचं शिथिलमाङ्गिरसो बिभर्ति ॥ ११ ॥ वेशं मुख्यत्वेन सूचयन्नाह नन्वेतावेवेत्यादि । एतावेव रामलक्ष्मणावेव मुनीन्कोशिकादीनभिराध्यत आराध्यतः । वैदेहो जनकः । गौतमः शतानन्दः । कीदृशौ । ज्ञानं तत्त्वज्ञानम् , कर्म यज्ञादि, ताभ्यां ढौकितावुपनीतौ मोक्षस्वर्गाविव मोक्षखर्गतुल्यौ । उपमायामिवशब्दः । ननु मुनीनभिराध्यत इत्यसंबद्धम् । दिवादी राधः अकर्मकादृद्धावेव सकर्मकाच श्यन्न प्राप्नोति यत इति । भैवम् । कौशिकादीनभि लक्षीकृत्य । 'अभिरभागे' इति कर्मप्रवचनीयसंज्ञाविधानात् । यद्वाकर्मकाद्वृद्धावेवेति नियमः । सकर्मकात्तु भवत्येव श्यन् । यद्वा मुनीन्दौकितावभिवादयमानावाराध्यत इत्यकर्मको धातु: । चिरं विलम्बः । लुम्पन्विनाशयन् । शुचं शोकम् । नोऽस्माकम् । सुदिनायते सुदिनं करोति । 'सुदिनदुर्दिननीहारेभ्यश्च' इति क्यङ् । अद्यति । अद्य प्रदक्षिणभूता या शिखा ज्वाला सैव वलयः कङ्कणं यस्य तादृशः । यद्वा प्रदक्षिणज्वालावेष्टनः । कृशानुरग्निर्नोऽस्माकं जनपदेषु देशेषु वषट्कृतानि हुतान्यश्नाति खादति । यज्ञवह्नः प्रदक्षिणशिखा प्रशस्ता । आङ्गिरसः शतानन्दः स्वां च युवभेदं शिथिलं यथा स्यादेवं बिभर्ति धारयति । कुतः शिथिलं बिभर्तीत्याह-शान्तिकपौष्टिकेषु शान्तिपुष्टिनिमित्तकर्मसु त्वत्तेजसि
१. 'आगतयोरावयोः'. २. 'पुर एव गच्छावः'.
For Private and Personal Use Only