________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः] अनघराघवम् ।
१०५ आः कीदृगत्रिमुनिलोचनदूषिकायां
पीयूषदीधितिरिति प्रथितोऽनुरागः ॥ ८३ ॥ (रामं च दृष्ट्वा । सहर्षस्मितम् ।) कथमयं कुमाराङ्कविजयप्रत्यागतोऽपि ताडकानिग्रहेण हिणीयमानः सहसा नोपतिष्ठते वत्सः । (लक्ष्मणं प्रति ।) वत्स सौमित्रे, अस्माकमनेन वृत्तान्तेन प्रदोषलक्ष्मीरियमनूद्यते । पश्य ।
निशाचराणां तमसां निहन्ता पुरोऽयमुद्गच्छति रोमचन्द्रः ।
अथोल्लसद्भिर्नयनैर्मुनीनामयं कुमुद्वानजनि प्रदेशः ॥ ८४ ॥ रामः-(विर्भाव्य ।)
मदयति यदुत्पन्नो दुग्धाम्बुधेरयमम्बुधी
न्नयति नयनादत्रेोतो मुदं नयनानि च । तदखिलसुरश्रेणीसाधारणप्रणया शची
सहचरचरुस्थाली सोमः समञ्जसमीहते ॥ ८५ ॥ (सलज्जमुपसृत्य ।) भगवन् , अभिवादये।
'करम्भो दधिसक्तवः' इत्यमरः । 'दूषिका नेत्रयोर्मलम्' इति च । कुमाराङ्कः प्रथमयुद्धमेकतुलायुद्धं वा । 'एकसा' इति प्रसिद्धम् । निग्रहो मारणम् । हिणीयमानो लजमानः । हृणीशब्दात्कण्ड्वादियगन्ताच्छानच् । ङित्त्वात्तङ् । नोपतिष्ठते न संगच्छते। 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्' इति संगतिकरणे तङ् । अनेन वृत्तान्तेन ताडकाताडनरूपेण । अनूद्यते पुनरुक्ता भवति । अपरा प्रदोषलक्ष्मीर्भवतीत्यर्थः । प्रदोषसाधर्म्यमाह-निशाचराणामिति । अयं रामचन्द्रो रामः । अथ च राम एव चन्द्रः पुरोऽग्रे उद्गच्छत्युदयते । कीदृशः । निशाचराणां राक्षसानां तमसामिति व्यस्तरूपकम् । यद्वा तमसां पापयुक्तानाम् । पक्षे निशि रात्रौ चरतां तमसामन्धकाराणां चिहन्ता। अथानन्तरं रामचन्द्र उदित आयाते सत्युल्लसद्भिर्मुनीनां नयनैः करणभूतैरयं प्रदेशः कुमुद्वान्कुमुदबहुलोऽजनि जातः । कर्तरि णिच् । अन्योऽपि प्रदेशश्चन्द्रोदये सति कुमुद्वान्भवति । 'कुमुद्वान्कुमुदप्राये' इत्यमरः । मदयतीति । अयं सोमो दुग्धाम्बुधेर्ययस्मादुत्पन्नोऽतोऽम्बुधीन्समुद्रान्मदयति हटान्करोति । पुत्रेण पितुः प्रीत्युत्पादनस्य युक्तत्वात् । अत्रेमुनिविशेषस्य नयनाद्यज्जातो नयनानि मुदं नयति । चकारः का
१. 'ग्रथितः' इति पाठः. २. 'कुमारोऽङ्कविजय'; 'कुमारो विजय-' इति पाठः. ३. 'घृणीयमानः' इति पाठः. ४. 'वत्सः' इति पुस्तकान्तरे नास्ति. ५. 'रामभद्रः' इति पाठः. ६. 'विभाव्य च' इति पाठः. ७. 'रामः सलज्ज-' इति पाठः.
अन० १०
For Private and Personal Use Only