SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः अनराघवम् । ज्योतिर्मयेन वपुषा जगदन्तसाक्षी लजिष्यते कुलगुरुभगवान्वसिष्ठः ॥ ६० ॥ . (नेपथ्ये ।) अलमिष्ट्वा मखान्मूर्खाः खड्गधारेयमस्ति नः । अदवीयानयं पन्थाः खर्लोकमुपतिष्ठते ॥ ६१ ॥ रामः-(श्रुत्वा सरोषं ससंभ्रमं चोत्थाय सविनयमञ्जलिं बवा ।) भगवञ्जगत्रयगुरो गाधिनन्दन, दशरथगृहे संभूतं मामवाप्य धनुर्धरं दिनकरकुलास्कन्दी कोऽयं कलङ्कनवाङ्कुरः । इति नै वनितामेती हन्तुं मनो विचिकित्सते यदधिकरणं धर्मस्थीयं तवैव वचांसि नः ॥ ६२ ॥ स्मिन्नकीर्तिपटहे स्त्रीवधरूपे ताङ्यमाने वाद्यमाने सति भगवान्वसिष्ठः किं तु लज्जिध्यते । मामकीनस्त्रीवधरूपकर्मश्रवणात् । ननु कथमिमं वृत्तान्तं वसिष्ठो ज्ञास्यतीत्यत आह-ज्योतिर्मयेन ब्रह्ममयेन नक्षत्रमयेन वा वपुषा शरीरेण जगतोऽन्तेऽपि प्रलयेऽपि यः साक्षी साक्षाद्रष्टा । यद्वा जगतोऽन्तस्य चतुःसमुद्रपर्यन्तस्य साक्षी । द्रष्टेत्यर्थः । सा. क्षीति ‘साक्षागृष्टरि संज्ञायाम्' इतीनिः । यद्यप्युत्कर्षबुद्ध्यैव लोकेन रामचन्द्रकृतताडकावधप्रकाशनं तथापि रामस्य स्त्रीवधेनापकर्षबुद्धिरिलकीर्तिपटहत्वेन कीर्तनम् । वसिष्ठस्य ताडकावधज्ञाने प्रजाकृतप्रकाशनं न हेतुः । तस्य ज्योतिर्मयत्वेनैव सकलगोचरज्ञानाश्रयत्वात् । किं तु प्रजाकृततद्वधप्रकाशनं वसिष्ठस्य लज्जायां हेतुः । तथाहि ममापि यजमानरघुकुलस्य स्त्रीवधेनाप्युत्कर्षः प्रथत इति तस्य लज्जेति । नेपथ्ये घातुकानां सुबाहुप्रभृतीनां प्रथमं यागनिन्दापरं स्वमार्गप्रवर्तकं वचनम् । अलमित्यादि । हे मूर्खाः । अ. त्रापि पूर्ववत्क्त्वा । कुतो वृथेत्यत आह-अस्माकमियं खड्गधारास्ति । यज्ञाधिकेति भावः । कुतोऽस्या यज्ञाधिक्यमत आह-अयं पन्था अदवीयान्संनिहितः खर्गलोकमुपतिष्ठत उपस्थितो भवति । 'उपाद्देवपूजा-' इति संगतिकरणे तङ् । नानाङ्गै/हिप्रोक्षणावघातफलीकरणपुरोडाशहोमप्रभृतिभिर्यागः खलु निष्पाद्यते, तेनापूर्व जन्यते, तेन च ख! जन्यत इति वर्लोकगमने वक्रः पन्थाः । मम तु खड्गधारापातेन शीघ्रं स प्राप्यत इति यागेनालमिति भावः । तदुक्तम्-'द्वाविमौ पुरुषौ राजन्सूर्यमण्डलमेदिनौ । परिब्राड्योगयुक्तश्च युद्धे चाभिमुखो हतः ॥' इति । ससंभ्रमं सोद्वेगमित्यर्थः । संभ्रमस्त्वरा वा। तदेव स्फोरयति-दशरथेत्यादि। दशरथगृहे संभूतं मां धनुर्धरमवाप्य दिनकरकु १. 'ससंभ्रममुत्थाय'; 'सरोषसंभ्रममुत्थाय' इति पाठः. २. 'भगवन्गुरो' इति पाठः. ३. 'हि' इति पाठः. ४. “एनाम्' इति पाठः. ५. "धर्मस्थानम्' इति पाठः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy