SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रो. डि. प्रह्लादाचार्यः कुलपतिः राष्ट्रियसंस्कृतविद्यापीठम् मानिताविश्वविद्यालयः तिरुपतिः राष्ट्रियसंस्कृत विद्यापीठप, निकपति Lमानित शुभाशंसनम् । विद्याविभूतिविभूषिते भारतदेशे परस्सहस्त्रं वर्षेभ्यः अनूचानाः मनीषिप्रवराः अध्ययनाध्यापनादिसारस्वतकर्माणि समनुतिष्ठन्तः देशस्यास्य लोकगुरोः गरिमाणं प्रवर्धयन्तः, स्वानुभवान् स्वार्जितविद्याः लोकोपकाराय प्रसारयितुम् अत्यमूल्यानि ग्रन्थरत्नानि प्राणैषुः इत्येतत् भारतीयसाहित्यसुषमापरीवाहपरिप्लुतान्तःकरणानां भवतां नाविदितम्। एवं सत्यपि भारतीयवाङ्मयेतिहासे, कतिपये विद्वांसः भारते लेखनकला प्राचीनकालतः नासीदिति, आसीदपि सर्वत्र प्रसृमरा नासीदिति,आभारतं विविधाः लिपयः चित्राणि च भावाविष्करणे संप्रयुक्ताः चेति स्वस्वमतं संस्थाप्य अधुनापि विवदन्ते। यथा वाऽस्तु, भारतीयलेखनकलायाः प्राचीनत्वं, सर्वत्र तस्याः प्रसृमरत्वं वा, किन्तु भारतीयैः वाङ्याधिदेव्याः ग्रैवेयकत्वेन परस्सहस्रं ग्रन्थरत्नानि सङ्गुम्फितानि, गुरुमुखोच्चारणानुच्चारणपरम्पराप्राप्तः महान् वेदराशिः स्मृतिदायन समरक्ष्यत यथाचार्यपरम्परम्। गच्छति काले ग्रन्थप्रसरणस्य बहुतरापेक्षायां सत्यां लेखितुं सुलभतया प्राप्तानि शिलाफलकानि, काष्ठशकलानि तालपत्राणि, वृक्षत्वक् च समुपायोज्यन्त। एवं प्रावर्तत भारतीयं लेखनविज्ञानम्। लक्षशः तालपत्रग्रन्थाः विद्यानुरागिभिः चक्रवर्तिभिः समरक्ष्यन्त। विद्यायाः प्रसारार्थं पण्डितान् वादार्थ, तालपत्रग्रन्थान् उपायनरूपेण च सुदूरं देशं प्रति प्रेषितवन्तो विद्यानुरागिणः राजानः । अतश्च एकस्य ग्रन्थस्य शतशः सहस्रशो वा प्रतिलिपयः तत्र प्रदेशेषु प्राप्यन्ते। तत्र तत्र विद्याभिमानिजनैः तालपत्रग्रन्थाः पूज्यभावनया प्रतिगृहं संरक्षिताः। गच्छता कालेन ते ग्रन्थाः सर्वकारप्रयत्नेन, अन्येषां च सुमहद्योजनया सर्वेक्षिताः, सङ्गृह्य ग्रन्थालयेषु संरक्षिताः । सूच्यादिनिर्माणेन प्रकाशनमपि प्रापिताः । एतादृशः समुद्यमः अनेन राष्ट्रियसंस्कृतविद्यापीठेन अपि संस्थापनमनु प्रारभ्यत । उपपञ्चसहस्रं हस्तलिखितग्रन्थाः विद्यापीठस्य ग्रन्थालये संगृहीताः । तेषां ग्रन्थानां सूचीनिर्माणाय प्रयत्नाः बहोः कालात् प्रारब्धाः इदानीं सफलाः जाता इति नः प्रमोदस्य कारणम् । हस्तलिखितग्रन्थानां संरक्षणोद्यमे अस्माकम् आद्यः उद्यमः अयम् अग्रेऽपि प्रवर्तते । विस्तृतायाः ग्रन्थसूच्याः निर्माणमपि कालान्तरे भविता इत्यहं विश्वसिमि । अस्याः हस्तलिखितग्रन्थसूच्याः सम्पादकान् आचार्य का.इ. गोविन्दन्महोदयान् तथा अन्यान् च सहायकसम्पादकान् डॉ. एन्. लता, डॉ. चक्रवर्तिराघवन्, श्री प. मधुसूदनमहोदयान् एतादृशस्य अनुपमस्य कार्यस्य कृते अभिनन्दामि । अन्ये च विद्यापीठीयपरिवारसदस्याः ये अत्र सहयोगं कृतवन्तः तान् अपि शुभाशंसनैः प्रोत्साहयामि । इयं च सूची प्राचीनग्रन्थसम्पादनप्रकाशनादिषु अनुसन्धित्सूनां नवीनाः अनुसन्धानसामग्री: आविष्करोति इति विभाव्य एतादृशानाम् उद्यमानां साफल्यं भगवान् श्रीवेङ्कटेशः अनुगृह्णातु इति संप्रार्थ्य विरमामि । 35523) : For Private and Personal Use Only
SR No.020036
Book TitleAlphabetical Index of Sanskrit Manuscripts in Rastriya Vidhapith Tirupati
Original Sutra AuthorN/A
AuthorK I Govindan
PublisherRashitrya Sanskrit Vidyapitham
Publication Year2003
Total Pages246
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy