SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । 'नीत्वोच्चैर्विक्षिपन्तः कृततुहिन कणासारसङ्गान्परागानामोदानन्दितालीनतितरसुरभीन्भूरिशो दिङ्मुखेषु । एते ते कुङ्कुमाङ्कस्तनकलशभरास्फालनादुच्छलन्तः पीत्वा सीत्कारिवक्रं हरिणशिशुदृशां हैमना वान्ति वाताः॥ ११९॥ एते ते प्रसिद्धा हेमन्तसंबन्धिनो वाता वहन्ति । मृगाक्षीणां सीत्कारयुक्तं मुखं स्पृष्ट्ा । किं कुर्वन्तः । कुङ्कमलेपयुक्तस्तनकलशताडनादूर्ध्व गच्छन्तः । पुनः किं कुर्वन्तः । अनेकान्परागानुच्चैर्नीत्वा दिशामुखेषु निक्षिपन्तः । जनिततुषारकणवृष्टिभ्रमान् । पुनः कथंभूतान् । परिमलतोषितभ्रमरान् । अतिशयसुगन्धान् ॥ पीतस्तुषारकिरणो मधुनैव सार्ध मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती । मीनाकरं मनसि मानवतीजनस्य नूनं विभेद यदसौ प्रससाद सद्यः ॥ १२० ॥ कविरुत्प्रेक्षते — निश्चयेनायं चन्द्रो मधुपात्रे प्रतिबिम्बितः सन्मद्येनैव सह पीतः सन्मानिनीसमूहस्य चित्तेऽन्तः प्रविश्य मानोत्पत्तिस्थानं चूर्णयामास । कथमेतज्ज्ञायते—यदसौ मानिनीलोकस्तत्क्षणान्मानरहितो बभूव ॥ ललनालोलधम्मिल्लमल्लिकामोदवासिताः । ७७ वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः ॥ १२१ ॥ एवंविधा वायवो रात्रौ ग्रीष्मे वहन्ति । कथंभूताः । अङ्गनाचपल केशपाशमल्लिकापरिमलसुगन्धयः । संभोगखिन्नकामिनीप्रियाः ।। वान्ति कहारसुभगाः सप्तच्छदसुगन्धयः । वाता नवर्रेतिम्लानवधूसंगममन्थराः ॥ १२२ ॥ शरत्काले एवंविधा वाता वहन्ति । कीदृशाः । सौगन्धिकमनोज्ञाः । विषमच्छदसुरभयः । नवसंभोगखिन्नकामिनीसुखोत्पादनमन्दाः ॥ रामाणां रमणीयवक्रशशिनः स्वेदोदबिन्दुप्लुतो व्यालोलामलकावलीं प्रचलयंश्रुम्बन्नितम्बांशुकम् । For Private and Personal Use Only १. 'क्षिवोच्चैः' इति पाठः. २. 'कौन्दानानन्दितालीनतिशय' इति पाठः. ३. 'मानान्धकारमपि' इति पाठः. ४. 'रतग्लानवधूगमन' इति पाठः. ५. 'नितम्बाम्बरम्' इति पाठः.
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy