SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६४ काव्यमाला । स्थगयति मुहुः पत्युत्रे विहस्य समाकुला सुरतविरतौ रेम्या तन्वी मुहुर्मुहुरीक्षते ॥ ९० ॥ संभोगावसाने क्षामाङ्गी रमणीया पति वारंवारमवलोकते । अत एव साकूतं विहस्य लजया संभ्रान्ता भर्तुर्नेत्रे भूयोभूयः समाच्छादयति । रम्यैव कथमित्याह—इतस्ततः पतिते वाससी पाणिपल्लवं भ्रमयित्वा परिधानार्थे मृगयति । प्रदोपविध्यापनार्थे सुरतसंमर्दत्रुटितधम्मिल्लकुसुममालाशेषं क्षिपति । प्रियनयनस्थगनं च घट्टितक चुम्बनेऽप्युक्तमस्ति मुग्धायाः । ‘ईषत्परिगृह्य मीलिताक्षी जिह्वाग्रेण घट्टयन्ती करेण तस्य नयने छादयतीति घट्टितकम्' । मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता' इत्यनेन कान्तिर्नाट्यालंकारः । यथा भट्टनारायणस्य – 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु' ॥ काचित्सखी मानिनीं भीषयित्वा नायकसंप्रतिपत्तौ प्रवेशयतिसन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते । आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथा Acharya Shri Kailassagarsuri Gyanmandir — 1 श्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥ ९१ ॥ सन्त्येवात्र गृहे गृहे यौवनोद्धताः स्त्रियः । ताः पृच्छ गत्वा । कदा। अधुना । विलम्बं मा कृथा इत्यर्थः । किं पृच्छामीत्याह--प्रेयांसः किं तथा प्रणमन्ति यथा तव प्रेयान्दासवत्प्रणमंश्च वर्तते । प्रेयांसो हि प्रणम्यन्ते । तस्मात् हे आत्मद्रोहिणि, दुर्जनैरनर्थमभिहितं कर्णेऽष्यनिशं मा कृथाः का पुनः कथा हृदये । कर्णेजपवचनौ प्रियोऽपमानितः सन्कदाचित्स्नेहमुत्सृजति । निःस्नेहे तस्मिन्सति किं भवतीत्याह - छिन्नस्नेहरसाः पुरुषाः पुनर्दुःखानुवर्त्या भवन्ति दुःखेनानुवर्तितुं शक्यन्ते । दुराराध्या इत्यर्थः ॥ काचिन्मानशिक्षणनिर्बन्धदुर्ललिताः सखीरुपालभते - निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तदोपेक्षितः For Private and Personal Use Only सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ९२ ॥ १. 'रम्यं तन्वी पुनः पुनरीक्षते' इति शृङ्गारदीपिका. २. 'दुर्जनप्रलपितं कर्णे भृशं' इति शृङ्गारदीपिका. ३. ‘दुःखानुवृत्त्या यतः' इति शृङ्गारदीपिका. ४. 'उन्मूल्यते' इति शृङ्गारदीपिका. ५. 'तथा' इति शृङ्गारदीपिका.
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy