SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ८२ ॥ बीड़ानम्रवदना बाला वल्लभेन स्मयमानेन चिरं चुम्बिता । किं कृत्वा लजानम्रमुखी । पत्युः कपोलस्थलीं जातपुलकामिति हेतोर्जाप्रदवस्थाशंसिनीं विलोक्य । कपोलावलोकनमेव किं कृत्वा कृतम् । निद्राव्याजमुपागतस्य मुखं परिचुम्ब्य । कथम् । विस्रब्धम् । विस्रब्धचुम्बनमेव किं कृत्वा कृतम् । सुचिरं निर्वर्ण्य । मुग्धा ह्यन्यद्रा लजासाध्वसाभ्यां पराङ्मुखीकृताः क्व दयितमुखनिर्वर्णनचुम्बनरसमनुभवन्ति । सुचिरं निर्वर्णनमेव किं कृत्वा कृतम् । शयनात्स्तोकमुत्थाय । कथम् । प्रबोधशङ्कया शनैः । स्तोकोत्थानमेव किं कृत्वा कृतम् । मा कदाचिदपि कोऽपि मां पश्येदिति शङ्कया शून्यमपि वासगृहं विशेषेण दृष्ट्वा । (अत्र भिन्नकर्तृकत्वशङ्का न कार्या । लज्जाक्रियापेक्षया समानकर्तृकत्वात् ।) नायिकायाश्च स्वाभिप्राय चुम्बनमेतत् । यदुक्तम् — 'सुप्तस्य मुखमालोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागोद्दीपनम्' इति । स्वाधीनपतिका मुग्धा नायिका ।। लोलकूलतया विपक्षदिगुपन्यासेऽवैधूतं शिर स्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः । कोपात्ताम्रकपोलभित्तिनि मुखे दृष्टया गतः पादयो रुत्सृष्टो गुरुसंनिधावपि विधिर्द्वाभ्यां न कालोचितः ॥ ८३ ॥ श्वशुरप्राय गुरुजनसकाशेऽपि द्वाभ्यां चातुर्येण कोपप्रसादनात्मको विधिः समयोचितो न मुक्तः । कथं कथमित्याह — तत्र गत्वा आगतोऽसीति सूचकं स्पन्दितया भ्रूलतयान्यवनितागृहोद्देशोपक्षेपे नायिकया शिरोऽवधूतम् । नायकोऽपि शिरः कम्पनत्तान्तनिरीक्षणे विलक्षः स्थितः । किं विशिष्टः । नमस्या भवती यदेवमेव निरपराधस्य ममापराधमारोपयतीत्याशयेन कृतनमस्कारः । अथवा तस्यै दिशे मम नमस्कार एवेति भावः । न केवलं विलक्षः स्थितः नायिकाया मुखे इदानीं किं ते कितव कर्तुं शक्नोमि यद्येकान्ते लब्धो भवसि तदा शिक्षां ग्राहयामीति कोपात्ताम्रगण्डमण्डले मुखे सत्याभिनयॆन प्रणामं सूचयन्दृष्टया तत्पादयोः पतितः । अत्र कोपेन पुलकाद्यभावात्कपोले कर्कशत्वसाधारणधर्मो भित्तित्वेन रूपितः । दृष्टिश्वेयं लजितशङ्किता । यथा - ' -'fanfa दचितपक्ष्माग्रा प्रतितोर्ध्वपुटा भिया । त्रपाधोगततारा च शङ्किता दृष्टिरिष्यते ॥ काचित्सखीभिरुपदिष्टं मानं स्थापयितुमक्षमा ताः प्रत्याह जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं वक्रं स्वेदकणान्वितं न सहसा यावच्छठेनामुना | १. 'बालाभवच्चुम्बिता' इति शृङ्गारदीपिका. २. 'लोलभ्रूलतया' इति शृङ्गारदीपिका. ३. विधूतं' इति शृङ्गारदीपिका', ४. 'ईषत्ताम्रकपोलकान्तिनि मुखे दृष्टया नतः' इति शृङ्गारदीपिका. For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy