SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । प्रणयिजनस्यैवोपरोधोऽस्त्विति भावः । विरोधोऽलंकारः । यदुक्तम् — ' यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः' ॥ काचिन्मनस्विनी दयितमुपालभते तथाभूदस्माकं प्रथममे विभक्ता तनुरियं ततो न त्वं प्रेयानहमपि हताशा प्रियतमा । ५३ इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं मैयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥ ६९ ॥ आदौ तावदियमस्माकं तनुस्तथानिर्वचनीयेन प्रकारेणाविभक्ता जाता । संयोगाभावः कदाचिदपि नासीदित्यर्थः । अत एवैक्यप्रतिपादकस्तनुरियमिति प्रयोगः, न तु तनू इमे इति । आवयोरिति वाच्ये प्रणयबहुमानादस्माकमिति । तदनन्तरं न त्वं प्रेयान् अहमपि हताशा न प्रियतमेति ज्ञानमविभागेऽपि भेदमाचष्टे । तदतिशायी तादात्म्येन स्त्री. पुरुषभेदोऽपि निवृत्त इत्यर्थः । इदानीं गवामिव त्वमस्माकं पतिः वयमप्यग्निसाक्षितया परिणीता इति यावज्जीवं भर्तव्या इति कलत्रम् । न तु प्रेमगन्धोऽपि । तदेतस्मादपि किमन्यत् । केवलं त्वयि पराङ्मुखे येन गजोन्मूलितकोमलमृणालनालन्यायेन विशुष्कास्तेन तेषां वज्रकर्कशानां प्राणानामिदं नाथकलत्रव्यवस्थारूपं फलमासादितम् । अथ च कारणानुरूपं कार्यमिति कर्कशानां फलमपि कर्कशमेवेत्यर्थः । मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि । संख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ ७० ॥ काचिदमुना प्रकारेण सख्या प्रतिबोधिता सती प्रतिवचनमाह - नीचैः शंस । यस्मात्त्वय्युच्चैरुच्चरन्त्यां मम हृदये कृतास्पदः प्राणेश्वरः श्रोष्यति । तवोपरि क्रुद्धो भविष्यतीति भावः । अथ च प्राणनाथोऽयं यस्य हस्ते स जयतीति(?) यद्यहमनेन सह विप्रतिपद्ये तदा मे प्राणान्गृहीत्वा तिष्ठतीति । अत एव भीतानना । संकुचितत्वेन भीतमिवाननं यस्याः सा तथा । इयं च मुग्धा तदेकताने हृदि प्राणेश्वरं साक्षादेव स्थितं मन्यते । एवं कथं प्रतिबोधितेत्याह हे मुग्धे, बाल्यदुर्ललितेनैव सर्वः कालोऽतिवाहितुं कस्मादारभ्यते त्वया । केवलं मुग्धेत्याशङ्कनीया भविष्यसि । तस्मादीर्ष्याकारणं विनापि मानं धारय । माने धृते कथमवस्थातुं प्रभविष्यामीत्याह — धृतिमवस्थापय । न ― For Private and Personal Use Only १. 'पुरा' इति शृङ्गारदीपिका. २. 'अविछि(भि)न्ना' इति शृङ्गारदीपिका. ३. 'ततोऽनु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः' इति शृङ्गारदीपिका. ४. 'हतानां' इति शृङ्गारदीपिका. ५.‘अखिलं कालं' इति शृङ्गारदीपिका. ६. 'सख्येदं' इति शृङ्गारदीपिका.
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy