SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मुग्धे दुष्करमेतदित्यतितमामुद्दामहासं बला दाश्लिष्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४६॥ सापराधे प्रेयसि यद्यस्मद्गृहमागच्छसि तदामुकशपथस्तवेति निवारितेऽप्यमकसखीवेषं कृत्वा प्राप्ते सति मया निजवयस्याभ्रमेण परिरभ्य प्रियसंगमस्पृहया स दुरात्मा योवं परिरभ्यत इत्यादिकमपि रहस्यमुक्तम् । अथ सिद्धसमीहितेन तेन शठेन मुग्धे यदेतत्वयोक्तं तन्मम दुष्करमित्युक्त्वा निरतिशयेन सशब्दहासं यथा भवत्येवं हठादालिङ्गयाद्य रजनीमुखसमये वञ्चितास्मि । तदाहं तमज्ञास्यम् । भवादृशीनां सखीनामेव भ्रमेण म. टास्मीति भावः । अत्र कामुकस्य हठाश्लेष उद्दामहासोपलम्भेन नायिकाया अपसरणं सूचयति । अन्यथा सखीभ्रमेण स्वयं कृताश्लेषायाः कीदृशं हठालिङ्गनम् । मुग्धे इत्यत्र पत्यौ सखीमोहः, रहस्यमदितमित्यनेन काममोहश्च । रसान्तरं प्रसादनोपायः । यथा'अभिव्यक्तालीकः सकलविफलोपायविभवश्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम् । इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषां धूर्तः स्मितमधुरमाश्लिष्यति वधूम् ॥' समयाभियोगश्चायं नायकस्य । यदुक्तम्-'प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुखेन सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति' इति । प्रदोषागमे छलितेत्युचितम् । अन्यस्यापि यस्य भतादिच्छलनं भवति तस्य प्रदोषे प्रायः श्रूयते । अद्य प्रदोषागमे इत्यत्राद्यशब्दो विचार्यते-यदैव सा छलिता तदेव नायकः संप्रतिपत्तिमात्र कृत्वा गत इति तावन्न घटते । यतो मानिनी सखीवेषप्रायोपायकष्टप्रसादिता सर्वा शर्वरी लालनीया भवति । अगते च तस्मिन्प्रदोषसमयानन्तरं कस्याग्रे कथं वा स्ववृत्तान्तं निवेदयति । न चैवंविधानि वाक्यानि मनोगतानि घटन्ते । ततश्चाद्यशब्दः कथमुपपद्यते । अत्रोच्यते-लोकोक्तिमात्रमेतत् । यथा व्यतीतरात्रिवृत्तान्तेऽप्युपवर्ण्यमाने अद्य रात्री मया स्वप्नो दृष्ट इति व्यवह्रियते, तथा अद्य प्रदोषागमे इत्यत्रापि ॥ कश्चिद्वियोगी प्रियतमामानवृत्तान्तमनुस्मरतिआशङ्कय प्रणतिं पटान्तपिहितौ पादौ करोत्यादरा द्वयाजेनागतमावृणोति हसितं न स्पष्टमुट्ठीक्षते । मय्यालापवति प्रतीपर्वचनं सख्या सहाभाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ४७ ॥ तन्व्यास्तावदास्तां निरन्तरमनुवृत्तिपरता, यावन्मानोऽपि रमणीयोदयः । सर्वास्वव स्थासु स्पृहणीयेति भावः । कथमित्याह-आशयेत्यादि । एष प्रणामं करिष्यतीति च याविशेषेरनुमीय प्रयत्नाद्वस्त्राञ्चलावगुण्ठितौ स्वचरणौ विदधाति । न त्वन्यतो नयति । कोपस्य स्वल्पत्वात् । पूर्वानुभूतस्य कस्यचिनर्मण उल्लेखेनाकस्मादागतं हास्यं किाम १. 'दुष्कर एष इत्यतितरामुक्त्वा सहासं बलादालिङ्गय' इति शृङ्गारदीपिका. २. 'वचना सख्या समं भाषते' इति शृङ्गारदीपिका. For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy