SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ काव्यमाला । निद्रातुमप्यत्र स्थाने निषेधति । क्व सति । प्रिये पर्यनुयुञ्जने सति । कम् । प्रियायाः परि. जनम् । कथम् । स्वैरम् । ‘मन्दस्वच्छन्दयोः स्वैरम्' इति वचनान्मन्थरमित्यर्थः । द्विकर्मकत्वेन पुनरिति पृच्छति सति । इतीति किम् । किं पुनर्विह्वलाक्षी कटिसूत्रेण निबिड - नियमितसिचयान्ता निद्रायते । अत्र गाढतरनितम्बवस्त्राञ्चलवहनाभ्यसूयागर्भो रम्भास्तम्भाभिरामोरुकाण्डस्पर्शलौल्यपर्यवसायी भणितेरुल्लेखः । इयं च साङ्गभङ्गैरलसचेष्टाविशेषैर्लम्बितपक्ष्मलोचनाञ्चला मदनमदविक्लवतामनुभवन्त्यासीत् । न पुनर्वास्तवीं निद्राम् । यदि वा मृषा सुप्तिरियम् । यदुक्तम्- - ' सापि भावजिज्ञासार्थिनी नायकस्यागमनकाले मृषा सुप्ता स्यात् । अत एव मन्दमपि प्रियस्य प्रश्नवचनमश्रौषीत् । मातः स्वप्तुमपीति मातःशब्दः स्त्रीणामुक्तिमात्रे । सूक्ष्मोऽलंकारः । यदुक्तम्- 'इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।' यथा - 'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥' काच्या गाढतरेत्यादि संभोगनर्म । यथा - 'सालोए व्विअ सूरे घरिणो घरसामिअस्स घेत्तूण । णेच्छन्तस्स वि पाऐ धुवइ हसन्ती हसन्तस्स ।।' एते च नर्मभेदाः । वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् । हासेनैव सशृङ्गारभयेन विहितं त्रिधा ॥ आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा । शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैः ॥ सर्वे सहासमित्येवं नर्माष्टादशधोदितम् ।' मातः स्वप्नुमपीत्यादिना आत्मोपक्षेपनर्म । यथा - 'मध्याहं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां मा शून्येति विमुञ्च पान्थविवशः शीतः प्रपामण्डपः । तामेव स्मर घस्मरस्मरशरत्रस्तां निजप्रेयसीं त्वच्चित्तं तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥ एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपैराङ्मुखं ग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा न्मा भून्म्लान इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ २२॥ कयाचिन्मुग्धया प्रियतमस्तत्कालमेव पराङ्मुखं यथा भवत्येवमवज्ञातः । किं कुर्वन्नपि । चाटूनि कुर्वन्नपि लालनवाक्यानि ब्रुवाणोऽपि । तथाभूतोऽपि कस्मादवधीरितः । आवेगात् । तस्य लक्षणम् — 'आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो त्रासा त्यांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः । उत्पातात्स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनुभयस्तम्भकम्पापसाराः ॥' अत्र सपत्नीनामत्रहणमेवाहितम् तत्कृत आवेगः । किंविशिष्टया । ग्लपितया । क्व सति । एकस्यां शय्यायां सपत्नीनामोच्चारणे सति एकस्मिन्शयने प्रस्तुतायां रतिप्रवृत्तौ विपक्षस्त्रीनामग्रह इत्येव १. ‘सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । अनिच्छतोऽपि पादौ धावति हसती हसतः ॥' इति च्छाया. २. 'पराङ्मुखग्लपितया' इति शृङ्गारदीपिका. ३. ‘तत्क्षणं' इति शृङ्गारदीपिका. ४. 'सुप्त' इति शृङ्गारदीपिका. For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy