SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir १२ किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्गथम् । हसितपठितमित्यत्र 'सर्वो हि द्वन्द्वो विभाषैकवद्भवति' इत्येकवचनम् । अत्र श्लोके त्वया तस्यापराधः सोढव्य इति कापि नोक्तम् । एतच्च वक्तुः कौशलम् । अपराधस्मारणे हि मानिनो प्रतिनायिकां स्मरति । ततश्चाधिकं कुप्यति । न चैवंविधः प्रसाधन निर्बन्धः पूर्वमस्यां केवलेन दाक्षिण्येन अपि तु लोकोत्तरेण प्रेम्णा च । उक्तम् -- ' अक्खडइ पिआ हिअए अण्णं महिलाअणं रमन्तस्स । दिट्ठे सरिसम्मि गुणेऽसरिसम्म गुणे अईसन्ते' | अनेकनायिकाकमनीयनायकव्यलीकविलीयमानविलासां वरवर्णिनीं विदग्धववयस्या वक्त नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता स्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः । कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरे किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ८ ॥ 1 1 अङ्गनास्तावद्बहिर्मुग्धा अन्तः शठास्तव रमणमपहरन्ति । निषिद्धा अपि न निवर्तन्ते । तत्किमिति मुधा ताम्यसि कस्माच्च रोदिषि । उभयमपि व्यर्थमित्यर्थः । एवं हि तासामभीप्सितं भवति । अत एव तासां प्रियं मा कृथा इति । तर्हि किं समयोचित - मित्याह — कान्त इत्यादि । हे कातरे, किं न विक्रीयते । लक्षणया अनन्याधीनः किं न क्रियते । अनन्याधीनं हि वस्तु विक्रेतुं याति । कोऽसौ । पतिः । किंविशिष्टः । कान्तः सुन्दरः । क्रीडारसिकः । तरुणः सहृदयस्तादृगनिर्वचनीयचेतनः । किं कृत्वा । आक्रम्य । मुग्धशठाभ्य एव नायिकाभ्य आच्छिद्येत्यर्थः । कैः । प्रियशतैः । किंविशिष्टैः । बेर्बरकर्कशैः सोल्लुण्ठनर्मनिरनुक्रोशैः । यदुक्तं गोवर्धनाचार्येण - 'अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः । इतरेन्धनजन्मा यो धूमः सोऽगुरुसमुद्भवो धूपः अत एव केलिरुचिर्न चासंभावितो वश्यतां याति । यतस्तादृक्सहृदयः । 'दक्षिणोऽस्यां सहृदयः' । अपमानितश्च नार्या विरज्यते । स पुनरुत्कृष्ट इति मया स्वयं माममुत्सृज्य संगमयितुं कथं युज्यते पतिरिति लाघवलजाभीरुत्वेन कातरे इति संबोधनम्। प्रशंसामनोज्ञानुनयप्रवर्तिका चेयमुक्तिः । यः कान्त इत्यादि गुणस्पृहणीयो वारिताभिरप्यङ्गनाभिरपह्रियते स त्वयापराधोचितनिग्रहस्थानीयेन बर्बरकार्कश्येन विक्रेयकोटिमानीयते । त स्माद्युवतिषु धन्या त्वमिति प्रतीयमानत्वात्परिवृत्तिरलंकारः । बर्बरकर्कशं दत्त्वा पतिरपढियतामिति पर्यवसितत्वात् । यदुक्तम् —'युगपद्दानादाने अन्योन्यं वस्तुनोः क्रियेते 1 १. ‘आस्खलति प्रिया हृदये अन्यं महिलाजनं रममाणस्य । दृष्टे सदृशे गुणे असदृशे गुणे अदृश्यमाने ॥' इति गाथासप्तशतोटीकायां (१९४४) छाया. २. 'बर्बर कर्कशैः परुषकठिनैः' इति शृङ्गारदीपिका. For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy