SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५८ सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः उणादिषु निरूरीश्च ड्याडंतं चलं स्थिरम् ॥ तत्कीडायां प्रहरणं चेन्मौष्टा पाल्लवा ण दिक् ॥५॥ घको ञः सा क्रिया ऽस्यां चेदांडपाता हि फाल्गुनी ॥ श्यैनंपाता च मृगया तैलंपाता स्वधेति दिक् ॥६॥ स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षा ऽपचये यदि ॥ उणादिषु ये निः ऊ: ईः एते त्रयः स्त्रियां स्युः । तत्र न्यंतो यथा । श्रेणिः " श्रोणिः द्रोणिः । उणादिष्वनिरिति पाठे अनिर्यथा । धरणिः धमनिः सरणिः।" ऊदंतो यथा । चमूः कः । ईदंतो यथा । तंत्रीः “ तरीः ।" उचंतं आवतं ऊतं च यञ्चलं जंगमं स्थिरं स्थावरं वा तत् स्त्रियां स्यात् । जंगमं यथा । नारी शिवा ब्रह्मवधूः । स्थावरं यथा । कदली माला कर्कंधूः । तच्छब्देनात्र मुष्टथादिकं निर्दिश्यते । तेनायमर्थः । तन्मुष्टयादिकं प्रहरणं यदि क्रीडायां वर्तते तर्हि तस्मिन्नर्थे विहितो णप्रत्ययः स्त्रियाम् । तदस्यां प्रहरणमिति क्रीडायांण इति सूत्रात् दिगित्यनेनोक्तोदाहरणोद्देशः । तेन दांडा मौसलेति चोदाहर्तव्यम् । मुष्टिः प्रहरणमस्यां क्रीडायां मौष्टा । पाल्लवः प्रहरणमस्यां क्रीडायां पाल्लवा ॥५॥ सा घबंतवाच्या । दंडपातादिक्रिया ऽस्यां फाल्गुन्यादिकायामित्यर्थे घबंताद्विहितो यो अप्रत्ययः स स्त्रियां स्यात् । घनः साऽस्यां क्रियेति ञ इति सूत्रात् उदाहरति दंडपातो ऽस्यां फाल्गुन्यां दांडपाता फाल्गुनी । एवं श्येनपातो ऽस्यां श्यैनंपाता . मृगया । तिलपातो ऽस्यां स्वधाक्रियायां तैलंपाता । श्येनतिलस्येति मुम् । पितृदाने स्वधामतमित्यमरमाला । वररुचिना तु स्वधा क्रिया प्रवेणीति स्त्रीलिंगतोक्ता । इति. शब्देन मुसलपातो ऽस्यां मौसलपाता भूमिरित्यादिसिद्धिः । क्वचिद्देशे फाल्गनपौर्णमास्यां दंडपातेन क्रीडा भवतीति।दिगित्यनेन दांडपातादिकं उदाहरणमिति सूचितम् ॥६॥ यदि अपचये ऽल्पत्वे विवक्षा वक्तुमिच्छा स्यात्तर्हि मृणाल्यादयः स्त्रीलिंगाः स्युः । यथा । अल्पं । मृणालं मृणाली । आदिशब्दाद्यथा। प्हस्वो वंशो वंशी । गौरादित्वात् डीए । एवं कुंभीप्रणालीछत्रीपटीतटीमठीत्यादयः। -हस्वार्थे कन्प्रत्ययः स्त्रियाम । यथा पेटिका । काचिदिति किम् । अल्पो वृक्षो वृक्षक इत्यादि न स्त्रियाम् । अथ ड्याबूङतमित्यादिनोक्तलिंगानामपि केषां चिन्नाम्नां सुखेन लिंगज्ञानाय पृथक् पाठं कांतादिक्रमेणाह । लंकेति । लंका राक्षसपुरी । शेफालिका पुष्पभेदः वृक्षभे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy