SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४२ सटीकामरकोशस्य [नानार्थवर्गः द्वार्यापीडे क्वाथरसे नि!हो नागदंतके ॥२३५॥ तुलासत्रे ऽश्वादिरश्मौ प्रग्राहः प्रग्रहो ऽपि च ॥ पत्नीपरिजनादानमूलशापाः परिग्रहाः॥ २३६ ॥ दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः॥ व्यूहो वृंदे ऽप्यहिव॒त्रे ऽप्यनींदर्कास्तमोऽपहाः॥ २३७ ॥ परिच्छदे नृपाहेऽर्थे परिबर्हो ॥इति हांताः॥ऽव्ययाः परे॥ आङीषदर्थे ऽभिव्याप्तौ सीमार्थ धातुयोगजे ॥२३८॥ दयो ग्रहाः। निबंध आग्रहविशेषः उपरागश्चंद्रार्कग्रहणम् । ग्रहो निग्रहनिबंधग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोरिति विश्वः ॥ द्वारि द्वारे । आपीडे शेखरे । वाथरसे कथितद्रव्यरसे । नागदंतके गृहादिभित्तिस्थकीलद्वये नियूहः ॥ २३५ ॥ हस्ते यद्गृहीत्वा तुलया द्रव्यमुन्मीयते तत्तुलासूत्रं तत्र । अश्ववृषादिरश्मौ च प्रग्राहप्रग्रहौ । “ प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बंधने ॥ प्रग्रहः किरणे भुजे ॥ तुलासूत्रे ऽश्वादिरश्मौ सुवर्णे हरिपादपे । बंधे बंद्यामिति हैमः।" परिजनः परिवारः । आदानं स्वीकारः । “परिग्रहः कलत्रे च मूलस्वीकारयोरपि। शपथे परिवारे च राहुवस्थभास्कर इत्यजयः" ॥ २३६ ॥ दारेषु पत्न्याम् । चकारात्सद्मनि गृहाः पुंभूग्नि । या वरस्त्री उत्तमा स्त्री तस्याः श्रोण्यां कट्यामारोहः । यथा वरारोहा । अपिशब्दादवरोहे गजारोहे च । “ आरोहो दैर्घ्य उ. च्छाये स्त्रीकट्यां मानभिद्यपि । आरोहणे गजारोहे इति हेमचंद्रः ।" अपिशब्दाद्वयूहः स्याद्वलविन्यासे । अहिर्वृत्रासुरे सपै “ निर्माणतर्कयोश्च ।” वह्निचंद्रसर्यास्तमोपहाः । “जिने च तमोपहः ॥ २३७॥ नृपाहेऽर्थे राजयोग्यद्रव्ये सित. च्छत्रादौ । परिबर्हस्तु राजाहवस्तुन्यपि परिच्छद इति । “परिबर्हः परिवारः।" परे ऽतऊर्ध्व वक्ष्यमाणा आङादिशब्दा अव्यया उच्यते । अव्ययलक्षणं तु। सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु ॥ वचनेषु च सर्वेषु यन्न व्येति तदव्ययमिति । तेषामत्र वर्गे उपन्यासस्तु पूर्ववन्नानार्थत्वात् । इति हाताः ॥ आडित्यव्ययं ईषदर्थादिचतुष्के । तस्य डकारो ऽनुबंधः । ईषदर्थे यथा । आपिंगलः ईषत्पिगल इत्यर्थः। अभिव्याप्तौ यथा । आसत्यलोकादापातालात् । सीमार्थे यथा । आसमुद्रं राजदंडः। धातुयोगजे क्रियायोगजे ऽर्थे यथा । आहरति “आक्रामतीत्यादि" ॥ २३८ ॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy