SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य नानार्थवर्गः आनतः समरे नृत्यस्थाननीवृदिशेषयोः॥६३ ॥ कृतांतो यमसिद्धांतदैवाकुशलकर्मसु ॥ श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः॥ ६४ ॥ इंद्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥ कक्षांतरे ऽपि शुद्धांतो नृपस्यासर्वगोचरे ॥६५॥ काससामर्थ्ययोः शक्तिमूर्तिः काठिन्यकाययोः॥ विस्तारवल्लयोव्रततिर्वसती रात्रिवेश्मनोः॥६६ ॥ क्षयार्चयोरपचितिः सातिर्दानावसानयोः॥ अतिः पीडाधनुष्कोटयोर्जातिः सामान्यजन्मनोः ॥६॥ प्रचारस्यंदयोरीतिरोतिर्डिबप्रवासयोः॥ पदांतर इत्यजयः ॥ ६३॥ यमो धर्मराजः । दैवं प्राक्तनं कर्म । अकुशलकर्म पापम् । श्लेष्मादयो धातुशब्दवाच्याः । आदिशब्दात्पित्तादिग्रहः । रस आहारपरिणामजो भागविशेषः । रसरक्तादीत्यादिना वसामज्जादिग्रहः । महाभूतानि पृथिव्यादीनि पंच । तद्गुणा गंधादयः ॥ ६४॥ इंद्रियाणि चक्षुरादीनि । अश्मविकृतिः मनःशिलादिः । शब्दयोनिः भू सत्तायामित्यादिः । भूवादयो धातव इति सूत्रात् । नृपस्य कक्षांतरे राजधानीस्थानविशेषे । असर्वगोचरे इति कक्षांतरस्य विशेषणम् । अपिशब्दादंतःपुरे आशौचांते च शुद्धांतः ॥६५॥ कासूः महाराष्ट्रभाषायां सैतीति ख्यातः आयुधभेदः । कासूर्विकलवाची स्यात् कासूः शक्त्यायुधेऽपि चेति विश्वात् । काठिन्यं दृढता । वल्ली लता । रात्रौ गृहे च वसतिः ॥६६॥ क्षयो हानिः अर्चा पूजा तत्रापचितिः निष्कृतौ व्यये च । अवसानं अंतः । धनुष्कोटिः चापाग्रम् । “आतिरिति पाठः । उपसर्गातीति वृद्धिः ।” सामान्यं गोवादि । मालत्यां च जातिः । “जातिः सामान्यगोत्रयोः । मालत्यामामलक्यां च चुल्लयां कंपिल्लजन्मनोः। जातीफले छंदसि चेति हैमः" ॥ ६७ ॥ प्रचारः लोकाचार इति यावत् । स्पंदः प्रस्रवणं । तत्र रीतिः । “ रीतिः प्रचारे स्वंदे च लोहकिट्टारकूटयोरिति विश्वः।" डिवे प्रवासे च ईतिः । डिंबो विप्लवः । स च सप्तविधः । अति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy