SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ॥ हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १६ ॥ धाता ऽजयोनिर्वृहिणो विरिंचिः कमलासनः॥ स्रष्टा प्रजापतिर्वेधा विधाता विश्वमृद्रिधिः ॥ १७॥ "नाभिजन्मांडजः पूर्वो निधनः कमलोद्भवः॥ सदानंदो रजोमूर्तिः सत्यको हंसवाहनः” ॥१॥ विष्णुर्नारायणः कृष्णो वैकुंठो विष्टरश्रवाः॥ दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥१८॥ दैत्यारिः पुंडरीकाक्षो गोविंदो गरुडध्वजः॥ पीतांबरोऽच्युतः शाी विष्वक्सेनो जनार्दनः॥ १९ ॥ उपेंद्र इंद्रावरजश्चक्रपाणिश्चतुर्भुजः॥ पद्मनाभो मधुरिपुर्वासुदेव स्त्रिविक्रमः ॥ २० ॥ 'देवकीनंदनः शैरिः श्रीपतिः पुरुषोत्तमः॥ वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥२१॥ पितामहः हिरण्यगर्भः लोकेशः स्वयंभूः चतुराननः ॥ १६ ॥ धाता अब्जयोनिः द्रुहिण: "दुषणः" विरिंचिः “विरिंचः" कमलासनः स्रष्टा प्रजापतिः वेधाः विधाता विश्वमृट विधिः । इति विंशतिर्ब्रह्मणः ॥ १७॥ विष्णुः नारायणः: "नरायणः” कृष्णः वैकुंठः विष्टरश्रवाः दामोदरः । दाम उदरे यस्य । हृषीकेशा । हृषीकाणामिंद्रियाणामीशः। केशवः माधवः स्वभूः ॥ १८॥ दैत्यारिः पुंडरीकाक्षः गोविंदः गरुडध्वजः पीतांबरः अच्युतः शाङ्गी । शृंगस्य विकारो धनुः यस्यास्ति सः। विष्वक्सेनः “विश्वक्सेनः" जनार्दनः ॥ १९ ॥ उपेंद्रः इंद्रावरजः चक्रपाणिः चतुर्भुजः पद्मनाभः मधुरिपुः वासुदेव: त्रिविक्रमः ॥ २० ॥ देवकीनंदनः शौरिः "सौरिः" श्रीपतिः पुरुषोत्तमः वनमाली बलिध्वंसी कंसारातिः अधोक्षजः ॥२१॥ विश्वंभरः कैटभजित् विधुः श्रीवत्सलांछनः । श्रीयुक्तो वत्सः श्रीवत्सः केशावर्त For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy