SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः ११५-१३८] प्रथमं काण्डम् शरीरस्था इमे रंहस्तरसी तु रयः स्यदः जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् सत्वरं चपलं तूर्णमविलम्बितमाशु च सततानारताश्रान्तसंतताविरतानिशम् नित्यानवरताजस्रमप्यथातिशयो भरः अतिवेलभृशात्यतिमात्रोद्गाढनिर्भरम् तीव्रकान्तनितान्तानि गाढबाढढानि च कीबे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां सत्त्वगामि यत् कुबेरख्यम्बकसखो यक्षराङ्गाकेश्वरः मनुष्यधर्मा धनदो राजराजो धनाधिपः किंनरेशो वैश्रवणः पौलस्त्यो नरवाहनः यक्षकपिङ्गैलविलश्रीदपुण्यजनेश्वराः १२७ १२८ १२९ १३० १३१ १३२ १३३ १३४ १३५ १३६ १३७ १३८ रंहः, तरः, रयः, स्यदः, जवः, इति ५ वेगस्य ॥-शीघ्रम् , त्वरितम् , लघु, क्षिप्रम् , अरम् , द्रुतम् , सत्वरम् , चपलम् , तूर्णम् , अविलम्बितम् , आशु, इति ११ त्वरितस्य ॥-सततम् , अनारतम् , अश्रान्तम् , संततम् , अविरतम् , अनिशम् , नित्यम् , अनवरतम् , अजस्रम् , इति ९ नित्यत्य ॥-अतिशयः, भरः, अतिवेलम् , भृशम् , अत्यर्थम् , अतिमात्रम् , उद्गाढम् , निर्भरम् , तीव्रम् , एकान्तम् , नितान्तम् , गाढम् , बाढम् , दृढम् , इति १४ अतिशयस्य ॥-शीघ्रादि 'शीघ्रं त्वरितम्', (१२८) इत्यारभ्य 'दृढ' शब्द (१३३) पर्यन्तं क्लीबे नपुंसकलिङ्गे यदुक्तम् , तत्त्वसत्त्वे द्रव्यवृत्तित्वाभाव एव ज्ञेयम् । यथा---'शीघ्रं कृतवान्', "भृशं मूर्खः', 'भृशं याति'। एषां शीघ्रादीनां मध्ये यत्सत्त्वगामि द्रव्यवृत्ति, तत्रिषु । तस्य द्रव्यस्य यल्लिङ्गं तदेवास्थेत्यर्थः । यथा-'शीघ्रा धेनुः', 'शीघ्रो वृषः', 'शीघ्रं गमनम्' । भरातिशययोः सत्त्वगामित्वं नास्ति । नित्यं पुंस्त्वम् ।।-कुबेरः, त्र्यम्बकसखः, यक्षराद, गुह्यकेश्वरः, मनुष्यधर्मा, धनदः, राजराजः, धनाधिपः, किंनरेशः, वैश्रवणः, पौलस्त्यः, नरवाहनः, यक्षः, एकपिङ्गः, ऐलविलः,श्रीदः, पुण्यजनेश्वरः, इति १७ कुबेरस्य । For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy