SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पङ्कयः ५-२० ] Acharya Shri Kailassagarsuri Gyanmandir प्रथमं काण्डम् ४. स्वर्गवर्ग: स्वरव्ययं स्वर्गनाक त्रिदिवत्रिदशालयाः सुरलोको घोदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः सुपर्वाणः सुमन सस्त्रिदिवेशा दिवौकसः आदितेया दिविषदो लेखा अदितिनन्दनाः आदित्या ऋभवोऽस्वमा अमर्त्या अमृतान्धसः बहिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् आदित्यविश्ववसवस्तुषिताभास्वरानिलाः महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ११ १२ १३ १४ १५ १६ १७ १८ १९ २० इदं द्वयं पूर्वभाक् न भवति पूर्वेण न संबध्यते । यथा - 'पुलोमजा शचीन्द्राणी नगरी त्वमरावती' ( ८९ ) इत्यत्र 'नगरी' इति त्वन्तं पदमिन्द्राण्या न संबध्यते, किं त्वमरावत्या संबर्द्धम् । तथा 'नित्यानवरता जस्रमप्यथातिशयो भर:' ( १३१ ) इति 'अथादि'पदं न पूर्वभाक् । किं तु भरस्य पर्यायः कृतः ॥ ११-१४२. स्वः, स्वर्गः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्यौः, द्यौः, त्रिविष्टपम्, इति ९ नामानि स्वर्गस्य । तत्र 'स्वर' इत्यव्ययम् । लिङ्गसंख्याकारकाभाववदित्यर्थः । 'द्योदिवो' द्वे स्त्रीलिङ्गे । 'त्रिविष्टपम्' क्लोबे नपुंसक एव ॥ - अमराः, निर्जराः, देवाः, त्रिदशाः, विबुधाः, सुराः, सुपर्वाणः, सुमनसः, त्रिदिवेशाः, दिवौकसः, आदितेयाः, दिविषदः, लेखाः, अदितिनन्दनाः, आदित्याः, ऋभवः, अस्वप्नाः, अमर्त्याः, अमृतान्धसः, बर्हिर्मुखाः, ऋतुभुजः, दानवारयः, वृन्दारकाः, दैवतानि देवताः इति २६ देवानाम् । व्यक्तिबाहुल्याद्बहुवचनप्रयोगः । विकल्पेन 'दैवत' शब्दः पुंसि । यथा - 'दैवतमिदम्, दैवतोऽयम्' इति । 'देवताः' त्रियाम् ॥ - आदित्याः, विश्वे, वसवः, तुषिताः, गीर्वाणाः, 39 १० 38 ६४ ११ ४९ २२० १२ आभाखराः, अनिलाः, महाराजिकाः, साध्याः, रुद्राः, एता ९ गणदेवताः ॥ - For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy