SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः नामलिङ्गानुशासनं नाम अमरकोषः संक्षिप्तमाहेश्वरीटीकया समेतः प्रथमं काण्डम् १. मङ्गलाचरणम् यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः सेव्यतामक्षयो धीराः स श्रिये चामृताय च २. प्रस्तावना समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् वन्दे तं परमानन्दं वामार्धेनोमया युतम् । रजौ भुजङ्गवद्यत्र विवरीवृत्यते जगत् ॥ २ For Private and Personal Use Only mo १ - २. इह खलु श्रीमदमर सिंह चिकीर्षितस्य नामलिङ्गानुशासनस्य निर्विघ्नपरि समाप्त्यर्थं कृतं मङ्गलं ग्रन्थादौ शिष्यशिक्षार्थं निवध्नाति यस्येति । भो धीराः, अगाधस्यातिगम्भीरस्य ज्ञानदयासिन्धोर्ज्ञानकरुणयोः समुद्रस्य यस्यानघा निर्मला गुणाः क्षान्त्यादयः सन्ति, सोऽक्षयः श्रिये संपत्तयेऽमृताय मोक्षार्थं च भवद्भिः सेव्यतामाराध्यताम् ॥ ३-४. अन्येषां तन्त्राणि शास्त्रान्तराणि समाहृत्यैकत्र कृत्वा संक्षिप्तैरल्पविस्तरबह्वर्थैः प्रतिसंस्कृतैः प्रतिपदं प्रकृतिप्रत्ययविचारेण कृतसंस्कारैर्वर्गैः सजातीयसमूहः संपूर्ण साङ्गोपाङ्ग नाम्नां स्वरित्यादीनां लिङ्गानां च स्त्री-पुं- नपुंसकाख्यानामनुशासनं व्युत्पादकं शास्त्रमुच्यते, मयेति शेषः ।
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy