SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्तयः २९५०-२९७३ ] तृतीयं काण्डम् कुष्टं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् संगम शतमानार्मशम्बलाव्ययताण्डवम् कवियं कन्दकार्पासं पारावारं युगंधरम् यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् स्त्रीपुंसयोरपत्यान्ता द्विचतुः षट्पदोरगाः जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ऊर्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः मूषा पाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ( अथ स्त्रीनपुंसकशेषः ) स्त्रीनपुंसकयोर्भावक्रिययोः ष्यञ्वचिच्च वुञ् औचित्य मौचिती मैत्री मैत्र्यं वुञ्प्रागुदाहृतः २५१ For Private and Personal Use Only २९६२ २९६३ २९६४ २९६५ २९६६ २९६७ २९६८ २९६९ २९७० २९७१ २९७२ २९७३ आमलकः, नडः, कुष्टम्, मुण्डम्, शीधु, बुस्तम्, क्ष्वेडितम्, क्षेमम्, कुट्टिमम्, संगमम्, शतमानम्, अर्मम्, शम्बलम्, अव्ययम्, ताण्डवम्, कवियम्, कन्दम्, कार्पासम्, पारावारम्, युगंधरम्, यूपम्, प्रग्रीवम्, पात्रीवम्, यूषम्, चमसः, चिक्कसः, इति । अर्धर्चादौ अस्मिन्वर्गे पुंनपुंसकाधिकारेऽघृतादीनां पुंस्त्वाद्यं पाणिन्यादिभिरुक्तं तत्तु वैदिकम्; अतस्तदिह नोक्तम् । तल्लोकेऽप्यस्ति चेत् शेषवत्, उक्तादन्यः शेषस्तद्वदस्तु शिष्टप्रयोगतो ग्राह्यम्, अपत्यान्ता अपत्यप्रत्ययान्ताः स्त्रीपुंसयोः स्युः । द्विचतुः षट्पदोरगाः । द्विपदचतुष्पदषट्पदवाचिनो भुजगवाचिनश्च जातिमेदाः स्त्रीपुंसयोः । स्त्रीयोगैः सह पुमाख्याः पुंनामानि स्त्री-पुंसयोः । मल्लकादयश्च स्त्रीपुंसयोः । ऊर्मिः, वराटकः, स्वातिः, वर्णकः, झाटलिः, मनुः, मूषा, सृपाटी, कर्कन्धूः, यष्टिः, शाटी, कटी, कुटी, इति । भावक्रिययोः ष्यञ् कर्मणि च वर्तमानः, ष्यञ्प्रत्ययो वुञ्प्रत्ययश्च क्वचित्स्त्री - नपुंसकयोर्वर्तते । तत्र ष्वञ्प्रत्ययमुदाहरति - उचितस्य भाव औचित्यम्, औचिती च । मित्रस्य कर्म मैत्र्यं मैत्री वा : वुञ्प्रत्ययस्तु वैर मैथुनिकादिवुन् इत्थं प्रागुदाहृतः । तथा मिथुनस्य भावः कर्म वा मैथुनिका मैथुनकं च । तत्पुरुषे षष्ठ्यन्तं षष्ठीविभक्त्यन्तं
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy