SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः २७३८-२७६३] तृतीयं काण्डम् २३३ स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने २७५१ अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः २७५२ उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः २७५३ अनुभावः प्रभावे च सतां च मतिनिश्चये २७५४ स्याजन्महेतुः प्रभवः स्थानं चाधोपलब्धये २७५५ शूद्रायां विप्रतनये शस्त्रे पारशवो मतः २७५६ ध्रुवो भभेदे क्लीबं तु निश्चिते शाश्वते त्रिषु २७५७ स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने २७५८ स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च २७५९ शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः २७६० द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु २७६१ क्लीबं नपुंसकं षण्ढे वाच्यलिङ्गमविक्रम २७६२ द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ २७६३ प्रसवः ।अपह्नवे अपलापे, निकृतौ शाठ्ये, अविश्वासेऽपि निह्नवः। उत्सेक उद्गतिः, अमर्षः कोपः, इच्छायाः प्रसरो वेगः, महः क्षणः, आनन्दावसर इति यावत् । एतेषु उत्सवः। सतां मतानस्य निश्चये, प्रभावे च अनुभावः। आद्योपलब्धये प्रथमज्ञानाय यत्स्थानम् , जन्महतुश्च प्रभवः। शूद्रायां विप्राजाते तनये शस्त्रे परश्वधाख्ये पारशवः । भभेदे नक्षत्रविशेषे ध्रुवः। पुंसि । निश्चिते अवधारिते ध्रुवं क्लीयम् । शाश्वते नित्ये ध्रुवस्त्रिषु । ज्ञातौ सगोत्रे आत्मनि क्षेत्रज्ञे स्वः पुंसि । आत्मीये खसंबन्धिनि खं त्रिलिङ्गम् । धने खः पुं-नपुंसके । स्त्रीकट्यां यो वस्त्रस्य बन्धस्तत्र, परिपणे राजपुत्रादेर्बन्धके, अपिना वणिजां मूलधने नीवी । फेरवः शृगालः । गौरी च शिवा । कलयुग्मयोः द्वन्द्वम् । द्रव्ये वस्तुनि, असुषु प्राणेषु, व्यवसाये वीर्यातिशये च सत्त्वम् । जन्तुषु सत्त्वमस्त्रियाम् । षण्ढे तृतीयप्रकृतौ क्लीवमिति बकारान्तं नाम नपुंसकम् । अविक्रमेऽलसे क्लीबो वाच्यलिङ्गः ।बवयोः सावादस्यात्र पाठः । मनुजो मनुष्यः, वैश्यश्च विशः । चरो गूढपुरुषः । For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy