SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० भमरको शार्वरं त्वन्धतमसे घातुके मेद्यलिङ्गकम् गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः जठरः कठिनेऽपि स्यादधस्तादपि चाधरः अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले उपर्युदीच्य श्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः स्वादुप्रियौ तु मधुरौ क्रूरौ कठिननिर्दयौ उदारो दातृमहतोरितरस्त्वन्यनीचयोः मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः चूडा किरीटं केशाश्च संयता मौलयस्त्रयः द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः करोपहारयोः पुंसि बलि: प्राण्यङ्गजे स्त्रियाम् [ ५. नानार्थवर्ग: २७१२ २७१३ २७१४ २७१५ २७१६ २७१७ २७१८ २७१९ २७२० २७२१ २७२२ २७२३ २७२४ २७२५ शार्वरशब्दः । अरुणे सिते पीते च गौरः । व्रणकारिणि भल्लातकफलेऽप्यरुष्करः । कठिने उदरेऽपि जठरः । अधस्तादनुवें ओष्ठेऽपि अधरः । अनाकुळे स्वस्थे, 'अपि' शब्दादेकतानेऽपि एकाग्रः । व्यासके द्विधा व्यापृते, आकुलेsनेकार्थन्यस्तचित्ते व्यग्रः, उपर्यादित्रये उत्तरः, एषामुपर्यादीनां विपर्यये वैपरीत्ये श्रेष्ठे च अनुत्तरः । दूरादयस्त्रयः पराः । दातरि महति च उदारः । खादुनि, प्रिये रसे च मधुरः । कठिने निर्दये च क्रूरः । नीचः पामरः, अन्यश्चेतरः । स्वच्छन्दः स्वाधीनः मन्दश्च स्वैरः । उद्दीप्ते शुक्ले च शुभ्रम् । चूडा शिखा, किरीटं मुकुटम् । संयता बद्धा ये च केशास्ते त्रयो मौलयः । , मप्रमेदे मातङ्गे गजे, काण्डे बाणे, पुष्पे च पीलुशब्दः । अनेहाः समयः कृतान्तश्च कालः । चतुर्थे युगे कलहेऽपि कलिः । कुरते, 'अपिशब्दात्कमलेऽपि कमलः । प्राक्रियत इति प्रावारः, 'अपि' शब्दानागराजेऽपि कम्बलः । करो राजदेयभागः । उपहार उपचारः । तत्र बलिः पुंसि । प्राप्यहजे त्वक्सकोचे बलिः For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy