SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः २६०९-२६३४ ] तृतीयं काण्डम् २२३ त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा २६२१ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु २६२२ सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु, २६२३ वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ २६२४ जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् २६२५ तुरंगगरुडौ ताक्ष्यों निलयापचयौ क्षयौ । २६२६ श्वशुर्यो देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ २६२७ पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः २६२८ तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे २६२९ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु २६३० रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः २६३१ स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते २६३२ समयाः शपथाचारकालसिद्धान्तसंविदः २६३३ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः २६३४ कृष्णः कालः उभौ श्यामौ । शारिवा शतावरी निशा च श्यामा । पुच्छम् । पुण्डमवादीनां ललाटचित्रम् । अश्वो घोटकः । प्रधानमेव प्राधान्यम् । केतुर्वजः षट्रसु ललामम् । अध्यात्म आत्मन्यधिकृतं लिङ्गदेहम् । 'अपि'शब्दारकैतवे सूक्ष्मम् । आये आदौ प्रधाने मुख्ये प्रथमः । त्रिष्विति यावन्मान्तमधिकारः। प्रतीपो विपरीतः । वल्गुश्च चामौ । न्यूनश्च कुत्सितश्चाधमौ । जीणे प्राप्तपरिणामम् । परिभुक्तं भुक्तोज्झितम् । द्वयं यातयामसंज्ञम् । अश्वगरुडौ ताक्ष्यसंज्ञौ । निलयो गृहम् । अपचयो ह्रासः।उभौ क्षयौ। देवरो भर्तृभ्राता, श्यालो भार्याभ्राता, एतयोः श्वशुर्यः । भ्रातृपुत्रः शत्रुपुत्रश्च भ्रातृव्यौ। रसदब्दो ध्वनदम्बुदः । इन्द्रः शक्रः । उभौ पर्जन्यौ । प्रभुवैश्ययोरर्यः । पुष्यः तुर्ययुगे च तिष्यः । अवसरे प्रस्तावे क्रमे च पर्यायः । प्रत्ययशब्दः अधीनादिषु सप्तसु । चिरद्वेष पश्चात्तापे चानुशयः । असाकल्येऽकात्स्यें । नागानां हस्तिनां यन्न शीघ्रं नापि मन्दं गमनं तत्र च स्थूलोषयः । शपथाचारकालसिद्धान्तसंवित्सु समयः व्यसनानि द्यूतादीनि । अशुभमिति दैवविशेषणम् , विपत् , विपत्तिः, एतत्रयं For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy