SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० अमरकोषे [५. नानार्यवर्गः आराधनं साधने स्यादवाप्तौ तोषणेऽपि च २५८५ अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि २५८६ रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने २५८७ तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे २५८८ समानाः सत्समैके स्युः पिशुनौ खलसूचको २५८९ हीनन्यूनावूनगौं वेगिर्रौ तरस्विनी २५९० अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि २५९१ कलापो भूषणे बर्हे तूणीरे संहतावपि २५९२ परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ २५९३ गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी २५९४ बाष्पमूष्माश्रु कशिपु वन्नमाच्छादनं द्वयम् २५९५ तल्पं शय्याट्टदारेषु स्तम्वेऽपि विटपोऽस्त्रियाम् २५९६ स्यात् । चक्रं रथाङ्गम् । पुरं नगरम् । अध्यासनमाक्रमणं अधिष्ठानं स्यात् । खजातिश्रेष्ठे रत्नम् । सलिलं जलम् । काननमरण्यम् । उभे वने । विरले सान्तरे । स्तोकेऽल्पे तलिनम् । यथा तलिनं वाच्यलिङ्गं तथा उत्तरेऽपि नान्तसमाप्तिपर्यन्तं वाच्यलिङ्गाः । सन् पण्डितः समः सदृशः एकश्चैते समानाः स्युः । खलो दुर्जनः सूचकः कर्णेजपः । उभी पिशुनौ । ऊनोऽल्पः, गर्यो निन्द्यः, द्वावेतो हीन न्यूनशब्दवाच्यौ । वेगी बंगयुक्तः । शूरो बली । उभौ तरविनौ। अपराद्धोऽपराधवान्, अभिग्रस्तः शत्रुणाकान्तः, व्यापद्गतः प्राप्तविपत्कः, एते अभिपन्नवाच्याः। भूषणे बर्हे मयूरपिच्छे । तूणीरे इषुधौ, संहतौ समुदाये, काभ्यां च कलापशब्दः । परिच्छदः पटमण्डपाद्युपकरणम् । पर्युप्तिः सर्वतोवपनम् । सलिलस्थितौ जलाधारे परीवापः । गां दोग्धीति गोधुग्गोपालः गोष्ठाध्य व गोपौ । वृषाकपिसंज्ञौ हरो विष्णुश्च । ऊष्मोष्णम् , अश्रु नेत्रोदकं च बाष्पसंज्ञम् । अन्नं भोजनम् , आच्छादनं वस्त्रम् । एतत् द्वयं कशिपुसंज्ञम् , अटोऽटालिका । दाराः, स्त्री, शय्या च तल्पम् । स्तम्बे तृणादिगुच्छे । 'अपि'शब्दाद्विस्तारशाखयोश्च विटपः। अमी प्राप्तरूपः, खरूपः For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy