SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ असरकोषे [५. नानार्थवर्गः हादिन्यौ वज्रतडितौ वन्दायामपि कामिनी २५५९ त्वग्देहयोरपि तनुः सूनाऽधोजिहिकापि च २५६० ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके २५६१ मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे २५६२ वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः उत्साहने च हिंसायां सूचने चापि गन्धनम् २५६४ आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् २५६५ व्यञ्जनं लाञ्छनं श्मश्रुनिष्ठानावयवेष्वपि २५६६ स्यात्कौलीनं लोकवादे युद्धे पश्चहिपक्षिणाम् २५६७ स्यादुद्यानं निःसरणे वनभेदे प्रयोजने २५६८ अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् २५६९ उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च २५७० व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च २५७१ वन्दावृक्षे विजातीयप्ररोहे । योषिन्मात्रे विलासिन्यामपि कामिनीशब्दो वर्तते । तनुः काये त्वचि च । अधोजिह्निका गलकण्ठिका सा सूना। 'अपि'शब्दात्पुत्र्यां वधस्थानेऽपि । ऋतुर्यज्ञः, विस्तारश्च वितानम् । तुच्छके शून्ये मन्दे च वितानं त्रिषु। केतौ ध्वजे उपनिमन्त्रणे निवासेऽपि केतनम् । तत्त्वं चैतन्यम् , तपो ब्रह्मा वेदादित्रये ब्रह्मशब्दः क्लीबे । विप्रवेधसोः पुंसि । उत्साहने हिंसायां सूचने, 'अपि'शब्दादाशयप्रकाशने च गन्धनम् । प्रतीवापः क्षीरादौ तक्रादेनिक्षेपः । जवनं वेगः । आप्यायनं प्रीणनम् । एतदर्थकमातञ्चनम् । लाञ्छनं चिह्नम् । निष्ठानं तेमनम् । अवयवोऽवयवभेदः । एतेषु व्यञ्जनं नाम । लोकवादे लोकापवादे पश्वादीनां युद्धे च कौलीनम् । निःसरणे प्रहादेर्निर्गमे वनभेदे उपवने प्रयोजने च उद्यानं नाम । स्थानमिति स्थित्यवकाशयोः । क्रीडायां व्यवहारे जिगीषादौ देवनम् । पौरुषे उद्योगे । तत्रे कुटुम्बकृत्ये सिद्धान्ते चौषधोत्तमे । सन्निविष्ट स्योद्गमे ऊर्वीभवनेऽपि उत्थानम् । प्रतिरोधे तिरस्कारे । For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy